SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 744 A DESCRIPTIVE CATALOGUE OF उदाहृतय एता हि वेदभाष्येऽप्युदीरिताः । द्वन्द्वानेकाधिकरणवचनो युगपद् भवेत् ।। इत्यादिसाधनं युक्तादनपेक्षितकीर्तनम् । न हि काश्चद्विशेषोऽस्मात् विचाराद्विद्यते स्वरे ।। स्थानिवन्ना(न)हजा(ला)देशो भवेदिति यदीरितम् । यत्रैव देवताभाव एकस्मिन् हविषि द्वयोः । तत्रैव देवताद्वन्द्वस्वर इत्यपि जल्पितम् । बह्वेवमादिकं ज्ञेयमपसिद्धान्तकीर्तनम् ॥ अन्येऽपि दोषास्तदन्थदृष्टिभिस्सुगमा इति । वक्ष्यते चोत्तरत्रेति क्रियते नात्र विस्तरः ।। ये दोषास्स्वरमञ्जा ते तद्विवरणेऽपि च । अतः प्रचोदयति मां कृतावस्यां गुरोः कृपा ।। विद्वांसश्श्रोतुमहान्त तामेतां वीतमत्सराः॥ इत्यारम्भणं नाम प्रथमं प्रकरणम् ।। अथ संज्ञाप्रकरणम् ॥ निश्वसितं श्रुतिरखिला विश्वमिदं यस्य केवला लीला । तस्मै धाम्ने गिरिजामिश्रितवपुषे नमोऽस्तु कस्मै चित् ।। सिद्धिः कार्यस्य निर्विघ्ना यदधीना विधेरपि । तदस्तु हस्तिवदनं वस्तु निश्रेयसाय नः ॥ कराभ्यां कस्याश्चित् कमलनयनायाः परिसरे दृशोर्लीलाव्याजात् सपदि चलयन् केलिकमलम् । परागैस्तस्यास्यां मुकुलितदृशि स्वैरमपराम् अथालिङ्गन् वृ(ह)प्टो दिशतु मदभीष्टं मुररिपुः ।। For Private and Personal Use Only
SR No.020185
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1905
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy