________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
745
व्याकृतिनिर्मितविदितान्मुनिवर्यांस्त्रीन्नमस्कुर्वे | गुरुमपि समष्टिमेषां वन्दे श्रीरामयज्वानम् ॥ तैत्तिरीयकशाखानुसारिणी विदुषां मता । विरच्यते धियश्शुद्धयै खरसिद्धान्तचन्द्रका | कष्टं व्याकरणं पतञ्जलिरपि प्राह स्म तत्राप्यसौ दुर्ज्ञाना मतिमद्भिरप्यतितरां कष्टा स्वरप्रक्रिया । षा सा क मलीमसा मम मतिर्मन्दा तथाप्य (प्युत्स) हे यन्मह्यं दयतेतरान्निरुपधिरश्रीरामभद्रो गुरुः || निश्चित्य स्वरशास्त्रतत्त्वमखिलं भाष्यादिभिर्भास्कराद्याचार्यारचितं विभाग्य सुचिरं भाष्यं श्रुतीनामपि । यच्चाकाङ्क्षितमत्र नैव कथितं तत् प्रातिशाख्यादिभिस्संगृह्य ग्रथिता मुदेऽस्तु विदुषामेषानवद्या कृतिः ॥ न्यक्कृतपूर्वनिबन्धा सत्कृतसत्संप्रदाय रमणीया । कस्य न मोदं तनुते कृतिरेषा मृदुपदावलीरचिता ॥ आम्नाये ये प्रवीणाः परिचयरहिताः प्रायशस्तेये स्युस्तत्रापि दक्षाश्शिथिलपरिचयास्ते स्वरप्रक्रियायाम् । ईर्ष्यान्धाः केऽपि तत्राप्यधिकपरिचयाः किन्तु सन्तोऽनसूयाः . पृथ्व्यां भवेयुः कति चन सफलो यत्र यत्नो मदीयः ॥ उच्चैरुदात्तः ।
For Private and Personal Use Only
ऊकालोऽज्ज्ज्रस्वदीर्घप्लुतः इति सूत्रादजित्यनुवर्तते, उच्चैरित्यधिकरणशक्तिप्रधानमव्यय मूर्ध्वशब्दसमानार्थकम् ; तच्चात्र ताल्वादिस्थानसम्बन्धिन्यूर्ध्वभागे वर्तते । ताल्वादिषु हि स्थानेषु औत्तराधर्येण व्यवस्थिता भागाः । अधिकरणत्वस्य क्रियांपेक्षत्वाद्येोग्यतया निष्पत्तिक्रियालाभः । तदयमर्थः ताल्वादिस्थानोर्ध्वभागे निष्पन्नोऽनु (जु) दात्तसंज्ञ इति ।