________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
743
सर्वानुदात्तभावश्च सुबन्तानां तिङामपि । स्वरः प्रतानामप्येकश्रुतिश्चेति यथाक्रमम् ॥ अवान्तरप्रकरणान्यत्र सन्ति बहून्यपि । जिनि(न्नि)त्रस्वरादयस्तेषु व्युत्पाद्या इति सङ्ग्रहः ।। सौवरी प्रक्रिया पूर्वे न सम्यग्व्युदपीपदन् । तथा हि तावद्वत्त्यादौ वैदिकोदाहृतिर्न हि ॥ वेदे हि संप्रदायेन(ण) प्रथते नियतस्वरः । लोकेन पाठनैयत्यन्तस्य नेति च वक्ष्यते ॥ विप्रकीर्णा च सा तत्र यथासूत्रं यथायथम् । नापि सिद्धान्तकौमुद्याम् . . . . सन्त्येव दुष्परिहरा दोषास्तत्रापि पञ्चषाः ।। अदोषानेव तान्मन्ये गच्छतस्खलनं यथा। अथादोषाः कतिपये गण्यन्ते स्वारमञ्जराः ।। अपेक्षितस्यावचनमनपेक्षितकीर्तनम् । अथाभाससमाधानमनाशयस्य शङ्कनम् ॥ अपसिद्धान्तकथनं तथानन्वितकीर्तनम् । परस्परविरुद्धत्वं स्वोक्तानामेव च क्वचित् ।। व्युत्क्रमेण च सूत्राणां कथनं निष्प्रयोजनम् । अनाञ्जस्यं विभागस्येत्याद्या दोषाः परिस्फुटाः ।। बहूनां पाणिनीयानां सूत्राणामविवेचनम् । फिटसूत्रस्यावर्णनश्चापेक्षितानवबोधनम् ॥ न च वेदोदाहरणमेषां नेत्यविवेचनम् । उदाहरिप्यमाणत्वात् बहूनामेप्वपि श्रुतम् ।।
97
For Private and Personal Use Only