SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथममध्ययन श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् सूत्रम् नियुक्ति: ४७ बाहातप:प्रतिपादनम्। ॥४३॥ पादपस्येवोपगमनं सामीप्येन वर्त्तनं पादपोपगमनमिति,तच्च द्विधा- व्याघातवन्निाघातवच्च, तत्र व्याघातवन्नाम यत्सिंहायुपद्रवव्याघाते सति क्रियत इति, उक्तं च-सीहादिसु अभिभूओ पादवगमणं करेइ थिरचित्तो। आउम्मि पहुप्पते विआणिउं नवरि । दुमपुष्पिका, गीअत्थो॥१॥ इत्यादि, निर्व्याघातवत्पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्यान्निष्पाद्योत्सर्गतः द्वादश समाः कृतपरिकर्मा सन्काल एव करोति, उक्तं च चत्तारि विचित्ताई विगईनिजूहियाइं चत्तारि । संवच्छरे अ दोणि उएगंतरिअंच आयामं ॥१॥णाइविगिट्ठो अब तवो छम्मासे परिमिअंच आयामं। अने वि अ छम्मासे होइ विगिटुं तवोकम्म ॥२॥ वासं कोडीसहियं आयाम काउ आणुपुवीए। गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ।। ३ ।। इत्यादि । तथा इङ्गिते प्रदेशे मरणमिङ्गितमरणम्, इंद च संहननापेक्षमनन्तरोदितमशक्नुवतश्चतुर्विधाहारविनिवृत्तिरूपं स्वत एवोद्वर्त्तनादिक्रियायुक्तस्यावगन्तव्यमिति, उक्तं च-इंगिअदेसंमि सयं चउब्विहाहारचायणिप्फण्णं। उच्चत्तणादिजतं णाणेण उ इंगिणीमरणं ॥१॥ इत्यादि। भक्तपरिज्ञा पुनस्त्रिविधचतुर्विधाहारविनिवृत्तिरूपा, सा नियमात्सप्रतिकर्मशरीरस्यापि धृतिसंहननवतो यथासमाधि भावतोऽवगन्तव्येति, उक्तं च- भत्तपरिणाणसणं तिविहाहाराइचायनिप्फण्णं । सपडिक्कम्मं नियमा जहासमाहि विणिद्दिढ॥ १॥ इत्यादि उक्तमनशनम्, अधुना ऊनोदरता- ऊनोदरस्य भाव ऊनोदरता, सा पुनर्द्विविधा- द्रव्यतो भावतश्च, तत्र द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणे जिनकल्पिकादीनामन्येषां सर्वात्मना। 0 सिंहादिभिरभिभूतः पादपोपगमनं करोति स्थिरचित्तः। आयुषि प्रभवति विज्ञाय केवलं गीतार्थः ॥१॥ चत्वारि विचित्राणि विकृतिनियूंढानि चत्वारि । संवत्सरौ च द्वौ तु एकान्तरितं चाचाम्लम् ॥ १॥ नातिविकृष्ट च तपः षण्मासान् परिमितं चाचाम्लम् । अन्यानपि च षण्मासान् भवति विकृष्ट तप कर्म ।। २॥ वर्ष कोटीसहितमाचामाम्लं कृत्वाऽऽनुपूर्व्या । गिरिकन्दरां तु गत्वा पादपोपगमनमथ करोति ।। ३ ।। 0 इङ्गितदेशे स्वयं चतुर्विधाहारत्यागनिष्पन्नं । उद्वर्तनादियुक्तं नान्येनैव इङ्गिनीमरणम् ॥१॥ भक्तपरिज्ञाऽनशनं त्रिविधाहारादित्यागनिष्पन्नम् । सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् ॥ १।। * रहितानि वि. प्र० । ॥४३॥ 55 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy