SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२९॥ एषणाग्रहणाद् गवेषणादिग्रहः, ततश्च तदर्थसूचकत्वादाहारैषणेति, तथा गोचरःसामयिकत्वाद् गोरिव चरणं गोचरोऽन्यथा प्रथममध्ययन गोचारः, तदर्थसूचकत्वाचाधिकृताध्ययनविशेषो गोचर इति, एवं सर्वत्र भावना कार्येति, भावार्थस्तु यथा गौश्वरत्येवमविशेषेण । द्रुमपुष्पिका, नियुक्ति: ३७ साधुनाऽप्यटितव्यम्, न विभवमङ्गीकृत्योत्तमाधममध्यमेषु कुलेष्विति, वणिग्वत्सकदृष्टान्तेन वेति, तथा त्वगिति' त्वगि पुष्पैकार्थवासारं भोक्तव्यमित्यर्थसूचकत्वात् त्वगुच्यत इति, उक्तं च परममुनिभिः- जहा चत्तारि घुणा पण्णता, तंजहा- तयक्खाए छल्लिक्खाए कानि सुसमाकट्टक्खाए सारक्खाए, एवामेव चत्तारि भिक्खुगा पन्नत्ता, तंजहा- तयक्खाए छल्लिक्खाए कट्टक्खाए सारक्खाए, तयक्खाए णाम एगे नो। दृष्टान्तादिश्च। सारक्खाए सारक्खाए णाम एगेनो तयक्खाए एगे तयक्खाए वि सारक्खाए वि एगे नो तयक्खाए णो सारक्खाए । तयक्खायसमाणस्स ण । भिक्खुस्स सारक्खायसमाणे तवे भवइ, एवं जहा ठाणे तहेव दट्टव्वं । भावार्थस्तु भावतस्त्वकल्पासारभोक्तुः कर्मभेदमङ्गीकृत्य वज्रसारं तपो भवति, तथा उंछं इति अज्ञातपिण्डोज्छसूचकत्वादिति, तथा मेष इति यथा मेषोऽल्पेऽप्यम्भसि अनद्वालयन्नेवाम्भः पिबति, एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन भिक्षा ग्राहोत्येवंविधार्थसूचकत्वादधिकृताभिधान प्रवृत्तिरिति, तथा जलौका इति अनेषणाप्रवृत्तदायकस्य मृदुभावनिवारणार्थसूचकत्वादिति, तथा सर्प इति यथाऽसावेकदृष्टिअर्भवत्येवं गोचरगतेन संयमैकदृष्टिना भवितव्यमित्यर्थसूचकत्वादिति, अथवा- यथा द्रागस्पृशन् सर्पो बिलं प्रविशत्येवं साधुनाऽप्यनास्वादयता भोक्तव्यमिति, तथा व्रण इत्यरक्तद्विष्टेन व्रणलेपदानवद्धोक्तव्यम्, तथा अक्ष इत्यक्षोपाङ्गदानवच्चेति, 0 यथा सालङ्कारवणिम्वधूहस्ताद्भक्ष्यमात्त्वाऽत्ति वत्सस्तद्रूपालङ्काराद्यनिरीक्षमाणस्तथा साधुरपि । 0 यथा चत्वारो घुणाः प्रज्ञप्ताः, तद्यथा- त्वक्खादकः छल्लीखादकः काष्ठखादकः सारखादकः। एवमेव चत्वारो भिक्षुकाः प्रज्ञप्ताः, तद्यथा-त्वक्खादकः छल्लीखादकः (अन्तस्त्वक् छल्ली) काष्टखादकः सारखादकः। त्वक्खादको नामैकः नो सारखादकः सारखादको नामैको नो त्वक्खादकः एकस्त्वक्खादकोऽपि एको नो त्वक्खादको नो सारखादकः । त्वक्खादकसमानस्य भिक्षोः सारखादकसमानं तपो भवति, एवं यथा स्थानाने तथैव द्रष्टव्यम् । For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy