________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ४०८ ।।
www.kobatirth.org
अगुणः अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपि न भवतीति गाथार्थ: ।। ३५३ ।। एतदेव स्पष्टयन्नाह
नि०-जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जइवि कीरिजा न हु होइ तं सुवण्णं सेसेहि गुणेहिं संतेहिं ।। ३५४ ।।
युक्तिसुवर्णं कृत्रिमसुवर्णमिह लोके सुवर्णवर्णं तु जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव भवति तत्सुवर्णं परमार्थेन शेषैर्गुणैः कषादिभिः असद्भिः अविद्यमानैरिति गाथार्थः ।। ३५४ ।। एवमेव किमित्याह
नि०- जे अज्झयणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू । वण्णेण जच्चसुवण्णगं व संते गुणनिहिंमि ।। ३५५ ।।
येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयस्तैः करणभूतैः सद्धिर्भवत्यसौ भिक्षुर्नामस्थापनाद्रव्यभिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावृत्तित्वात् । किमिवेत्याह- वर्णेन पीतलक्षणेन जात्यसुवर्णमिव परमार्थसुवर्णमिव सति गुणनिधौ विद्यमानेऽन्यस्मिन् कषादौ गुणसंघाते, एतदुक्तं भवति यथाऽन्यगुणयुक्तं शोभनवर्णं सुवर्णं भवति तथा चित्तसमाध्यादिगुणयुक्तो भिक्षणशीलो भिक्षुर्भवतीति गाथार्थः ।। ३५५ ।। व्यतिरेकतः स्पष्टयति
नि०- जो भिक्खू गुणरहिओ भिक्खं गिण्हइ न होइ सो भिक्खू । वण्णेण जुत्तिसुवण्णगं व असई गुणनिहिम्मि ।। ३५६ ।। यो भिक्षुः गुणरहितः चित्तसमाध्यादिशून्यः सन् भिक्षामटति न भवत्यसौ भिक्षुर्भिक्षाटनमात्रेणैव, अपरिशुद्धभिक्षावृत्तित्वात्, किमिवेत्याह- वर्णेन युक्तिसुवर्णमिव, यथा तद्वर्णमात्रेण सुवर्णं न भवत्यसति गुणनिधौ कषादिक इति गाथार्थ: ।। ३५६ ।। किंच
नि०- उद्दिट्ठकथं भुंजइ छक्कायपमद्दओ घरं कुणड़ । पचक्खं च जलगए जो पियइ कह नु सो भिक्खु ? ।। ३५७ ।। उद्दिश्य कृतं भुङ्क्त इत्यौद्देशिकमित्यर्थः, षट्कायप्रमर्दकः- यत्र क्वचन पृथिव्याद्युपमर्द्दकः, गृहं करोति संभवत्येवैषणीयालये
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
दशममध्ययनं समिक्षुः,
निर्युक्तिः ३५४-३५५ उपनयः ।
निर्युक्तिः
३५६-३५७ निगमनम्।
॥ ४०८ ॥