________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ४०७॥
अवयवद्वारे
उपनयश्व।
नि०- अज्झयणगुणी भिक्खू न सेस इइ णो पइन-को हेऊ?। अगुणत्ता इइ हेऊ-को दिटुंतो? सुवण्णमिव ।। ३५०॥
दशममध्यवनं अध्ययनगुणी प्रक्रान्ताध्ययनोक्तगुणवान् भिक्षुः भावसाधुर्भवतीति, तत्स्वरूपमेतत्, न शेषः तद्गुणरहित इति नः प्रतिज्ञा
सभिक्षुः
नियुक्ति: ३५० अस्माकं पक्षः, को हेतुः? कोऽत्र पक्षधर्म इत्याशङ्कयाह- अगुणत्वादिति हेतुः अविद्यमानगुणोऽगुणस्तद्धावस्तत्त्वं तस्मादित्ययं ।
लिङ्गद्वारमहेतुः,अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, को दृष्टान्तः? किं पुनरत्र निदर्शनमित्याशङ्कयाह- सुवर्णमिव यथा । वयवद्वारंच।
नियुक्ति: ३५१ सुवर्ण स्वगुणरहितं सुवर्ण न भवति तद्वदिति गाथार्थः ।। ३५० ।। सुवर्णगुणानाहनि०- विसघाइ रसायण मंगलत्थ विणिए पयाहिणावत्ते । गुरुए अडज्झऽकुत्थे अट्ट सुवण्णे गुणा भणिआ।। ३५१ ।।
सुवर्णगुणाविषघाति विषघातनसमर्थं रसायनं वयस्तम्भनकर्तृ मङ्गलार्थ मङ्गलप्रयोजनं विनीतं यथेष्टकटकादिप्रकारसंपादनेन प्रदक्षिणावर्त ।
नियुक्तिः तप्यमानं प्रादक्षिण्येनावर्त्तते गुरु सारोपेतं अदाजु नाग्निना दह्यते अकुथनीयं न कदाचिदपि कुथतीत्येतेऽष्टावनन्तरोदिताः सुवर्णे सुवर्णविषया गुणा भणितास्तत्स्वरूपज्ञैरिति गाथार्थः ।। ३५१ ।। उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाह
नि०-चउकारणपरिसुद्धं कसछेअणतावतालणाए आजतं विसघाइरसायणाइगुणसंजुअंहोड़।। ३५२॥ चतुष्कारणपरिशुद्धं चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह- कषच्छेदतापताडनया चे ति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्णं स्वकार्यसाधकमिति गाथार्थः ।। ३५२ ।। यच्चैवंभूतं
नि०-तं कसिणगुणोवेअंहोइ सुवण्णं न सेसयं जुत्ती। नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू ।। ३५३ ।। तद् अनन्तरोदितं कृत्स्नगुणोपेतं संपूर्णगुणसमन्वितं भवति सुवर्णं यथोक्तम् , न शेषं कषाद्यशुद्धम्, युक्ति रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयति- यथैतत्सुवर्णं न भवति, एवं न हि नामरूपमात्रेण रजोहरणादिसंधारणादिना ।
३५२-३५३ उपनयः।
॥ ४०७॥
For Private and Personal Use Only