________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक
श्रीहारिक वृत्तियुतम्
॥ ३९६ ॥
विनयसमाधिस्थानम्।
शब्दार्थो भावनीयः ।। एतदेव श्लोकेन संगृह्णाति- विनये यथोक्तलक्षणे श्रुते अङ्गादौ तपसि बाह्यादौ आचारे च मूलगुणादौ, नवममध्ययन चशब्दस्य व्यवहित उपन्यासः, नित्यं सर्वकालं पण्डिताः सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याह- अभिरमयन्ति अनेकार्थ
विनयसमाधिः
चतुर्थोद्देशकः त्वादाभिमुख्येन विनयादिषु युञ्जते आत्मानं जीवम्, किमिति?, अस्योपादेयत्वात्, क एवं कुर्वन्तीत्याह- ये भवन्ति जितेन्द्रिया ।
सूत्रम् २ जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ॥१॥
चउव्विहा खलु विणयसमाही भवइ, तंजहा- अणुसासिज्जतो सुस्सूसइ १ सम्म संपडिवज्जइ २ वेयमाराहइ ३ न य भवइ अत्तसंपग्गहिए ४ चउत्थं पयं भवइ । भवड़ अइत्थ सिलोगो-पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए। न य माणमएण मजई, विणयसमाहि आययट्टिए। सूत्रम् २ ।। विनयसमाधिमभिधित्सुराह- चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथे त्युदाहरणोपन्यासार्थः, अणुसासिज्जतो इत्यादि, 'अनुशास्यमानः तत्र तत्र चोद्यमानः शुश्रूषति तदनुशासनमर्थितया श्रोतुमिच्छति १, इच्छाप्रवृत्तितः, तत् सम्यक् संप्रतिपद्यते सम्यग्- अविपरीतमनुशासनतत्त्वं यथाविषयमवबुद्ध्यते २, स चैवं विशिष्टप्रतिपत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदःश्रुतज्ञानं तद्यथोक्तानुष्ठानपरतया सफलीकरोति ३, अत एव विशद्धप्रवृत्तेःनच भवत्यात्मसंप्रगहीतः आत्मैव सम्यक प्रकर्षण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथाऽनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीत्यभिप्रायः, चतुर्थं पदं भवती त्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, भवति च अत्र श्लोकः अत्रेति विनयसमाधौ ‘श्लोकः छन्दोविशेषः । स चायं- प्रार्थयते हितानुशासनं इच्छतीहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशम्, शुश्रूषती त्यनेकार्थत्वाद्यथाविषयमवबुध्यते, तच्चावबुद्धं सत्पुनरधितिष्ठति-यथावत् करोति, न च कुर्वन्नपि मानमदेन मानगर्वेण माद्यति मदं याति
For Private and Personal Use Only