________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ३८९॥
नवममध्ययन विनयसमाधिः द्वितीयोद्देशकः सूत्रम् २१-२३ विनयाविनयफला
भिधानम्।
त्यतः (आह)-कालं शरदादिलक्षणम्, छन्दः तदिच्छारूपं उपचारं आराधनाप्रकारम्, चशब्दाद्देशादिपरिग्रहः, एतत् प्रत्युपेक्ष्य ज्ञात्वा हेतुभिः यथानुरूपैः कारणैः किमित्याह- तेन तेनोपायेन-गृहस्थावर्जनादिना तत्तत् पित्तहरादिरूपमशनादि संप्रतिपादयेत्, यथा काले शरदादौ पित्तहरादिभोजनं प्रवातनिवातादिरूपा शय्या इच्छानुलोमं वा यद्यस्य हितं रोचतेच आराधनाप्रकारोऽनुलोमं भाषणं ग्रन्थाभ्यासवैयावृत्त्यकरणादि देशे अनूपदेशाधुचितं निष्ठीवनादिभिर्हेतुभिः श्लेश्माद्याधिक्यं विज्ञाय तदुचितं *संपादयेदिति सूत्रार्थः ॥२०॥
विवत्ती अविणीअस्स, संपत्ती विणिअस्स य। जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ।। सूत्रम् २१ ।।
जे आवि चंडे मइइट्टिगारवे, पिसुणे नरे साहसहीणपेसणे। अदिट्टधम्मे विणए अकोविए, असंविभागीन तस्स मुक्खो। सूत्रम् २२॥
निहेसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विणयंमि कोविआ। तरित्तु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय ।। सूत्रम् २३ ।। त्तिबेमि ।। विणयसमाहिअज्झयणे बीओ उद्देसो समत्तो॥२॥ किंच- विपत्तिरविनीतस्य ज्ञानादिगणानाम, संप्राप्तिर्विनीतस्य च ज्ञानादिगणानामेव, यस्यैतत् ज्ञानादिप्राप्त्यप्राप्तिद्वयं उभयतः उभयाभ्यां विनयाविनयाभ्यां सकाशात् भवतीत्येवं ज्ञातं उपादेयं चैतदिति भवति शिक्षा ग्रहणासेवनारूपां असौ इत्थंभूतः अधिगच्छति-प्राप्नोति, भावत उपादेयपरिज्ञानादिति सूत्रार्थः ॥२१॥ एतदेव दृढयन्नविनीतफलमाह- यश्चापि चण्ड प्रव्रजितोऽपि रोषणः ऋद्धिगौरवमतिः ऋद्धिगौरवे अभिनिविष्टः पिशुनः पृष्ठिमांसखादकः नरो नरव्यञ्जनो न भावनरः साहसिकः अकृत्यकरणपरः हीनप्रेषणः हीनगुर्वाज्ञापरः अदृष्टधर्मा सम्यगनुपलब्धश्रुतादिधर्मा विनयेऽकोविदो विनयविषयेऽ0जं च पेसगं आयरिएहिं दिण्णं तं देसकालादीहिं हीणं करेइ।
॥३८९।।
For Private and Personal Use Only