________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sher Kailassagarsuneyarmandir
वैकालिक श्रीहारि० वृत्तियुतम् 11३८६॥
नवममध्ययन विनयसमाधिः द्वितीयोद्देशक: सूत्रम् १०-११ देवोदाहरणेन फलम्। सूत्रम
कुशलाप्रवृत्तेर्दुःखिततरा विज्ञेया इति सूत्रार्थः ॥ ८॥ विनयफलमाह-तहेवत्ति सूत्रम्, तथैव विनीततिर्यञ्च इव सुविनीतात्मानो। लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धि प्राप्ता महायशस इति पूर्ववदेव, नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः ॥९॥
तहेव अविणीअप्पा, देवा जक्खा अगुज्झगा। दीसंति दुहमेहता, आभिओगमुवट्ठिआ। सूत्रम् १०।।
तहेव सविणीअप्पा, देवा जक्खा अगुज्झगा। दीसंति सुहमेहता, इहि पत्ता महायसा ।। सूत्रम् ११॥ एतदेव विनयाविनयफलं देवानधिकृत्याह-'तहेव'त्ति सूत्रम्, तथैव यथा नरनार्यः अविनीतात्मानो भवान्तरेऽकृतविनयाः । देवा वैमानिका ज्योतिष्का यक्षाश्वव्यन्तराश्च गुह्यका भवनवासिनः,त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाः पराज्ञाकरणपरवृद्धिदर्शनादिना, आभियोग्यमुपस्थिता:- अभियोगः- आज्ञाप्रदानलक्षणोऽस्यास्तीत्यभियोगी तद्भाव आभियोग्यं कर्मकरभावमित्यर्थः उपस्थिताः- प्राप्ता इति सूत्रार्थः ॥ १०॥ विनयफलमाह-'तहेव'त्ति सूत्रम्, तथैवे ति पूर्ववत्, सुविनीतात्मानो। जन्मान्तरकृतविनया निरतिचारधर्माराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, श्यन्ते सुखमेधमाना अर्हत्कल्याणादिषु ।। ऋद्धिं प्राप्ता इति देवाधिपादिप्राप्तर्द्धयो महायशसो विख्यातसद्गुणा इति सूत्रार्थः ।।११।।
जे आयरिअउवज्झायाणं, सुस्सूसावयणंकरा । तेसिं सिक्खा पवहृति, जलसित्ता इव पायवा।। सूत्रम् १२ ।। अप्पणट्ठा परट्ठा वा, सिप्पा णेउणिआणि अ। गिहिणो उवभोगट्टा, इहलोगस्स कारणा।। सूत्रम् १३ ॥ जेणं बंधं वहं घोरं, परिआवं च दारुणं । सिक्खमाणा निअच्छंति, जुत्ता ते ललिइंदिआ।सूत्रम् १४॥ तेऽवि तं गुरुं पूअंति, तस्स सिप्पस्स कारणा। सक्कारंति नमसंति, तुट्टा निद्देसवत्तिणो।सूत्रम् १५ ।।
लोकोत्तरविनयफलमा
॥ ३८६॥
For Private and Personal Use Only