SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ३८५ ।। www.kobatirth.org राजादिवल्लभानामेते कर्मकरा इत्यौपवाह्याः हया अश्वाः गजा हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति । एते किमित्याहदृश्यन्ते उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलोकवर्त्तिना यवसादिवोढारः दुःखं संक्लेशलक्षणं एधयन्तः अनेकार्थत्वादनुभवन्तः आभियोग्यं कर्मकरभावं उपस्थिताः प्राप्ता इति सूत्रार्थः ।। ५ ।। एतेष्वेव विनयगुणमाह- 'तहेव'त्ति सूत्रम्, तथैवे ति तथैवैते सुविनीतात्मानो विनयवन्त आत्मज्ञा औपवाह्या राजादीनां हया गजा इति पूर्ववत् । एते किमित्याह- दृश्यन्ते उपलभ्यन्त एव सुखं- आह्लादलक्षणं एधमाना अनुभवन्तः शुद्धिं प्राप्ता इति विशिष्टभूषणालयभोजनादिभावतः प्राप्तर्द्धयो महायशसो विख्यातसद्गुणा इति सूत्रार्थः ॥ ६ ॥ तहेव अविणीअप्पा, लोगंमि नरनारिओ दीसंति दुहमेहंता, छाया विगलितेंदिआ ।। सूत्रम् ७ ।। दंडसत्थपरिजुन्ना, असब्भवयणेहि अ । कलुणाविवन्नच्छंदा, खुप्पिवासाइ परिगया ।। सूत्रम् ८ ।। तहेव सुविणीअप्पा, लोगंसि नरनारिओ दीसंति सुहमेहंता, इहिं पत्ता महायसा ।। सूत्रम् ९ ।। एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह- 'तहेव' त्ति सूत्रम्, तथैव तिर्यञ्च इव अविनीतात्मान इति पूर्ववत् । लोके अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटार्थं दृश्यन्ते दुःखमेधमाना इति पूर्ववत् छारा (ताः) कस घातव्रणाङ्कितशरीराः विगलितेन्द्रिया अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः ।। ७ ।। तथा 'दंड' त्ति सूत्रम्, दण्डा- वेत्रदण्डादयः शस्त्राणि खड्गादीनि ताभ्यां परिजीर्णाः समन्ततो दुर्बलभावमापादितास्तथा असभ्यवचनैश्च खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वात्करुणादीना व्यापन्नच्छन्दसः परायत्ततया अपेतस्वाभिप्रायाः, क्षुधा बुभुक्षया पिपासया - तृषा परिगता- व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | नवममध्ययनं विनयसमाधिः, | द्वितीयोदेशकः सूत्रम् ७-९ नरनार्युदाहर णेन फलम्। ।। ३८५ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy