________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SEC8
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३८३॥
संप्राप्नुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद्विनयकरणेन, न सकृदेव, अपि तु तोषयेद् असकृत्करणेन तोषं ग्राहयेत् धर्मकामोनिर्जरार्थम्, न तु ज्ञानादिफलापेक्षयाऽपीति सूत्रार्थः ।।१६।। सोचाण त्ति सूत्रम्, श्रुत्वा मेधावी सुभाषितानि गुर्वाराधनफलाभिधायीनि, किमित्याह- शुश्रूषयेदाचार्यान् अप्रमत्तो निद्रादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुशुश्रूषापरः स आराध्य गुणान् । अनेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तराम, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा । ब्रवीमीति पूर्ववदयं सूत्रार्थः॥ १७॥ ॥ प्रथमोद्देशकः समाप्तः ।।
॥नवमाध्ययने द्वितीयोद्देशकः ।। मूलाउखंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा । साहप्पसाहा विरुहंति पत्ता, तओ सि पुष्पं च फलं रसो अ॥सूत्रम्
नवममध्ययन विनयसमाधिः, द्वितीयोद्देशकः सूत्रम् १-२ वृक्षोपमया विनयमाहात्म्यम।
___एवं धम्मस्स विणओ, मूलं परमो से मुक्खो। जेण कित्तिं सुअंसिग्घं, नीसेसं चाभिगच्छइ ।। सूत्रम् २ ।।
विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिमंसूत्रं- 'मूलाउ' इत्यादि, अस्य व्याख्या-मूलाद् आदिप्रबन्धात् स्कन्धप्रभवः स्थुडोत्पादः, कस्येत्याह-द्रमस्य वृक्षस्य। 'ततः स्कन्धात् सकाशात् पश्चात् तदनु समुपयान्ति आत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः, कास्ता इत्याह- शाखाः तद्भुजाकल्पाः । तथा शाखाभ्य उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता विरोहन्ति जायन्ते, तथा तेभ्योऽपि पत्राणि पर्णानि विरोहन्ति । ततः तदनन्तरं से तस्य द्रमस्य पुष्पं च फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति सूत्रार्थः॥१॥ एवं दृष्टान्तमभिधाय दार्टान्तिकयोजनामाह-एवं ति सूत्रम्, एवं द्रुममूलवत् धर्मस्य परमकल्पवृक्षस्य विनयो । मूल आदिप्रबन्धरूपं परम इत्यग्रो रसः से तस्य फलरसवन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमनादीनि,
For Private and Personal Use Only