SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् 11३८२॥ शिरसा उत्तमाङ्गेन प्राञ्जलिः प्रोद्गताञ्जलि: सन् कायेन देहेन गिरा वाचा मस्तकेन वन्दे इत्यादिरूपया भो इति शिष्यामन्त्रणं नवममध्ययन विनयसमाधिः मनसा च भावप्रतिबन्धरूपेण नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति सूत्रार्थः ।। प्रथमोद्देशकः १२।। एवं च मनसि कुर्यादित्याह-'लज्जा दय'ति सूत्रम्, लज्जा अपवादभयरूपा दया अनुकम्पा संयमः पृथिव्यादिजीवविषयः सूत्रम् ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानम्, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो जीवस्य विशोधिस्थान ११-१७ गुरुमहत्व कर्ममलापनयनस्थानं वर्त्तते, अनेन ये मांगुरव आचार्याः सततं अनवरतं अनुशासयन्ति कल्याणयोग्यतां नयन्ति तानहमेवंभूतान गुराधनागुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजार्ह इति सूत्रार्थः ॥ १३ ॥ इतश्चैते पूज्या इत्याह-'जह'त्ति सूत्रम्, यथा निशान्ते । फलं च। रात्र्यवसाने दिवस इत्यर्थः, तपन् अर्चिाली सूर्यः प्रभासयति उद्योतयति केवलं संपूर्णम् । भारतं भरतक्षेत्रम्, तुशब्दादन्यच्च क्रमेण एवं-अर्चिालीवाचार्यः श्रुतेन आगमेन शीलेन परद्रोहविरतिरूपेण बुद्ध्या च स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्त्तमानः सुसाधुभिः परिवृतो विराजते सुरमध्य इव सामानिकादिमध्यगत इव इन्द्र इति सूत्रार्थः ।। १४॥ किंच-'जह'त्ति सूत्रम्, यथा शशी चन्द्रः कौमुदीयोगयुक्तः कार्तिकपौर्णमास्यामुदित इत्यर्थः, स एव विशेष्यतेनक्षत्रतारागणपरिवृतात्मा नक्षत्रादिभिर्युक्त इति भावः, खे आकाशे शोभते, किंविशिष्टे खे?- विमलेऽभ्रमुक्ते अभ्रमुक्तमेवात्यन्तं विमलं (तत्) भवतीति ख्यापनार्थमेतत्, एवं चन्द्र इव गणी(तत्) आचार्यः शोभते भिक्षुमध्ये साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति सूत्रार्थः ।। १५ ।। किंच- महागर त्ति सूत्रम्, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या महैषिणो मोक्षैषिणः, कथं महैषिण इत्याह- समाधियोगश्रुतशीलबुद्धिभिः समाधियोगैः- ध्यानविशेषैः श्रुतेन- द्वादशाङ्गाभ्यासेन शीलेन- परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्ये तुव्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति । तानेवंभूतानाचार्यान् ||३८२|| For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy