________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ।। ३५४ ।।
विरुद्धस्थानानि वर्जनीयानि इति गाथार्थः ॥ ३०५ ।। एवमकरणे दोषमाह
नि०- दुप्पणिहिअजोगी पुण लंछिजइ संजमं अयाणतो । वीसत्थनिसटुंगोव्व कंटइल्ले जह पडतो।। ३०६ ।। दुष्प्रणिहितयोगी पुनः सुप्रणिधिरहितस्तु प्रव्रजित इत्यर्थः लञ्च्यते-खण्ड्यते संयममजानानः संयत एवेति । दृष्टान्तमाहविश्रब्धो निसृष्टाङ्गस्तथा अयत्नपरः कण्टकवति श्वभ्रादौ यथा पतन् कश्चिल्लञ्छ्यते तद्वदसौ संयत इति गाथार्थः ।। ३०६ ॥ व्यतिरेकमाह
नि०- सुप्पणिहिअजोगी पुण न लिप्पई पुव्वभणिअदोसेहिं । निद्दहइ अकम्पाई सुक्कतणाई जहा अग्गी ॥ ३०७ ।। सुप्रणिहितयोगी पुनः सुप्रणिहितः प्रव्रजितः पुनः न लिप्यते पूर्वभणितदोषैः कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्, निर्दहति: च कर्माणि प्राक्तनानि तपःप्रणिधिभावेन, दृष्टान्तमाह- शुष्कतृणानि यथा अग्निर्निर्दहति तद्वदिति गाथार्थः ।। ३०७॥
नि०- तम्हा उ अप्पसत्थं पणिहाणं उज्झिऊण समणेणं । पणिहाणंमि पसत्थे भणिओ आयारपणिहित्ति ।। ३०८ ।। यस्मादेवमप्रशस्तप्रणिधिर्दुःखद इतरश्च सुखदस्तस्माद् अप्रशस्तं प्रणिधानं अप्रशस्तं प्रणिधिं उज्झित्वा परित्यज्य श्रमणेन साधुना प्रणिधाने प्रणिधौ प्रशस्ते कल्याणे, यत्नः कार्य इति वाक्यशेषः। निगमयन्नाह- भणित आचारप्रणिधिरिति गाथार्थः ।। ३०८ ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं___ आयारप्पणिहिं लडूं, जहा कायव्व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुब्विं सुणेह मे ॥सूत्रम् १ ॥ आचारप्रणिधिं उक्तलक्षणं लब्ध्वा प्राप्य यथा येन प्रकारेण कर्तव्यं विहितानुष्ठानं भिक्षुणा साधुना तं प्रकारं भे भवद्भ्यः
अष्टममध्ययन आचारप्रणिधिः नियुक्ति: ३०६ प्रशस्तेतरप्रणिधेगुणदोषाः। नियुक्तिः ३०७-३०८ निगमनम् सूत्रम् शिष्यसंबोधनम्।
11३५४।।
For Private and Personal Use Only