SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ||३३२॥ वाक्य नि०-जं वक्तं वयमाणस्स संजमो सुज्झई न पुण हिंसा। न य अत्तकलुसभावो तेण इहं वक्तसुद्धित्ति ।। २८८ ।। सप्तममध्ययन यद् यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्ध्यति, शुद्ध्यतीति निर्मल उपजायते, न पुनहिँसा भवति कौशिकादेरिव, न वाक्यशुद्धिः, नियुक्ति: २८८ चात्मनः कलुषभावः कालुष्यं- दुष्टाभिसन्धिरूपं संजायते, तेन कारणेन इह प्रवचने वाक्यशुद्धिर्भावशुद्धेनिमित्तमित्यतोऽत्र शुद्धिप्रयतितव्यमिति गाथार्थः ।। २८८ ।। ततश्चैतदेव कर्तव्यमित्याह निक्षेपाः। नियुक्तिः नि०-वयणविभत्तीकुसलस्स संजमंमी समुजुयमइस्स । दुब्भासिएण हुन्जा हु विराहणा तत्थ जइअव्वं ।। २८९।।। २८१-२९१ वचनविभक्तिकुशलस्य वाच्येतरवचनप्रकाराभिज्ञस्य न केवलमित्थंभूतस्यापि तु संयमे उ(समु)द्यतमतेः अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिदुर्भाषितेन कृतेन भवेत् विराधना- परलोकपीडा अतः तत्र दुर्भाषितवाक्यपरिज्ञाने यतितव्यं । परिज्ञानहेतुः। नियुक्ति: २९२ प्रयत्नः कार्य इति गाथार्थः ॥ २८९ ।। आह- यद्येवमलमनेनैव प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद्, आह च- वचनविधिः। नि०- वयणविभत्तिअकुसलो वओगयं बहुविहं अयाणंतो। जइविन भासइ किंची न चेव वयगुत्तयं पत्तो ।। २९० ।। वचनविभक्त्यकुशलोवाच्येतरप्रकारानभिज्ञः वाग्गतं बहुविधं उत्सर्गादिभेदभिन्नमजानानः यद्यपिन भाषते किश्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसौ अवाग्गुप्त एवेति गाथार्थः ।। २९० ।। व्यतिरेकमाह नि०- वयणविभत्तीकुसलो वओगयं बहुविहं वियाणंतो। दिवसंपि भासमाणो तहावि वयगुत्तयं पत्तो ।। २९१।। वचनविभक्तिकुशलो वाच्येतरप्रकाराभिज्ञः वागतं बहुविधमुत्सर्गादिभेदभिन्नं विजानन् दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः ।। २९१ ॥ साम्प्रतं वचनविभक्तिकुशलस्यौघतो वचनविधिमाह नि०- पुव्वं बुद्धीइ पेहित्ता, पच्छा वयमुयाहरे। अचक्खुओ व नेतारं, बुद्धिमन्नेउ ते गिरा ।। २९२ ।। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy