________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ३९३ ।।
www.kobatirth.org
एव रात्रावेषणीयचरणस्येति सूत्रार्थः ।। २३ ।। एवं रात्रौ भोजने दोषमभिधायाधुना ग्रहणगतमाह- 'उदउल्लं' ति सूत्रम्, उदकार्द्र पूर्ववदेकग्रहणे तज्जातीयग्रहणात्सस्निग्धादिपरिग्रहः, तथा बीजसंसक्तं बीजै: संसक्तं- मिश्रम्, ओदनादीति गम्यते, अथवा बीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेणेति, तथा प्राणिनः संपातिमप्रभृतयो निपतिता मह्यं पृथिव्यां संभवन्ति, ननु दिवाप्येतत्संभवत्येव?, सत्यम्, किंतु परलोकभीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्द्रादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरति संयमानुपरोधेन ?, असंभव एव शुद्धचरणस्येति सूत्रार्थः ।। २४ ।। उपसंहरन्नाह - 'एअं च' त्ति सूत्रम्, एतं च अनन्तरोदितं प्राणिहिंसारूपमन्यं चात्मविराधनादिलक्षणं दोषं दृष्ट्वा मतिचक्षुषा ज्ञातपुत्रेण भगवता भाषितं उक्तं सर्वाहारं चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते निर्ग्रन्थाः साधवो रात्रिभोजनमिति सूत्रार्थः ।। २५ ।।
पुढविकायं न हिंसंति, मणसा वयसा कायसा। तिविहेणं करणजोएणं, संजया सुसमाहिआ ।। सूत्रम् २६ ।। पुढविकायं विहिंसंतो, हिंसई उ तयस्सिए। तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ।। सूत्रम् २७ ।। तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । पुढविकायसमारंभं, जावजीवाइ वज्रए । सूत्रम् २८ ।। आउकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिआ ।। सूत्रम् २९ ।। आउकायं विहिंसंतो, हिंसई उ तयस्सिए। तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ।। सूत्रम् ३० ।। तम्हा एअंविआणित्ता, दोसं दुग्गइवहणं । आउकायसमारंभं जावजीवाइ वज्रए । सूत्रम् ३१ ।। उक्तं व्रतषट्कम्, अधुना कायषट्कमुच्यते, तत्र पृथिवीकायमधिकृत्याह- 'पुढवि'त्ति सूत्रम्, पृथ्वीकायं न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन, उपलक्षणमेतदत एवाह- त्रिविधेन करणयोगेन मनः प्रभृतिभिः करणादिरूपेण, के न हिंसन्तीत्याह
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
षष्ठमध्ययनं महाचारकथा, सूत्रम् २६-३१ कायषट्के
पृथिवी
| कायाप्काय समारम्भ
वर्जनविधिः ।
।। ३१३ ।।