________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
88888888888888066
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३१०॥
षष्ठमध्ययन महाचारकथा, सूत्रम् १५-१६ अदत्तानादानमैथुन
अबंभचरिअंघोरं, पमायं दुरहिट्टि । नायरंति मुणी लोए, भेआययणवजिणो ।। सूत्रम् १५ ॥
मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहणसंसगं, निग्गंथा वजयंति णं ।। सूत्रम् १६॥ । उक्तस्तृतीयस्थानविधिः, चतुर्थस्थानविधिमाह-'अबंभ'त्ति सूत्रम्, अब्रह्मचर्य प्रतीतं घोरं रौद्रं रौद्रानुष्ठानहेतुत्वात्, प्रमादं । प्रमादवत् सर्वप्रमादमूलत्वात् दुराश्रयं दुस्सेवं विदितजिनवचनेनानन्तसंसारहेतुत्वात्, यतश्चैवमतो नाचरन्ति नासेवन्ते मुनयो । लोके मनुष्यलोके, किंविशिष्टा इत्याह- भेदायतनवर्जिनो भेदः- चारित्रभेदस्तदायतनं- तत्स्थानमिदमेवोक्तन्यायात्तद्वर्जिन:
विवर्जनचारित्रातिचारभीरव इति सूत्रार्थः॥ १५ ॥ एतदेव निगमयति-'मूलं ति सूत्रम्, 'मूलं' बीजमेतद् अधर्मस्य पापस्येति पारलौकि- विधिः। कोऽपाय: महादोषसमुच्छ्रय महतांदोषाणां-चौर्यप्रवृत्त्यादीनां समुच्छ्रयं-संघातवदित्यैहिकोऽपायः, यस्मादेवं तस्मात् मैथुनसंसर्ग । मैथुनसंबन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, णमिति वाक्यालङ्कार इति सूत्रार्थः ॥१६॥
बिडमुब्भेइमं लोणं, तिलं सप्पिं च फाणि। न ते संनिहिमिच्छंति, नायपुत्तवओरया ।। सूत्रम् १७ ।। लोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि। जे सिआ सन्निहिं कामे, गिही पव्वइएन से ।। सूत्रम् १८।। जपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलजट्टा, धारंति परिहरंति अ।। सूत्रम् १९ ।। न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, इअवुर्त महेसिणा ।। सूत्रम् २० ।।
सव्वत्थुवहिणा बुद्धा, संरक्षणपरिग्गहे । अवि अप्पणोऽवि देहमि, नायरंति ममाइयं ।। सूत्रम् २१ ।। प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पञ्चमस्थानविधिमाह- 'बिड'त्ति सूत्रम्, बिडं गोमूत्रादिपक्वं उद्भेद्यं सामुद्रादि यद्वा । बिडं प्रासुकं उद्भेद्यं अप्रासुकमपि, एवं द्विप्रकारं लवणम्, तथा तैलं सर्पिश्च फाणितम्, तत्र तैलं प्रतीतम्, सर्पिघृतम्, फाणितं
सूत्रम् १७-२१ अपरिग्रहविधिः।
||३१०॥
For Private and Personal Use Only