________________
Shri Mahavir Jain Aradhana Kendra
1
श्रीदशवैकालिकं श्रीहारि०
वृत्तियुतम्
।। २८८ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्ठा, पाणट्ठाए व संजए । सूत्रम् १० । तमक्कमित्तु न पविसे, नवि चिट्ठे चक्खुगो अरे । एगतमवक्कमित्ता, तत्थ चिट्टिज्ज संजए ।। सूत्रम् ११ ।। वणीमगस्स वा तस्स, दायगस्सुभयस्स वा । अप्पत्तिअं सिआ हुज्जा, लहुत्तं पवयणस्स वा ।। सूत्रम् १२ ।। पडिसेहिए व दिने वा, तओ तम्मि नियत्तिए । उवसंकमिद्ध भत्तट्ठा, पाणट्ठाए व संजए । सूत्रम् १३ ।। कालेणं ति सूत्रम्, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन निष्क्रामेद् भिक्षुर्वसतेर्भिक्षायै, कालेन चोचितेनैव यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेत् निवर्तेत । भणिअं च- खेत्तं कालो भायणं तिन्निवि पहुप्पंति हिंडउत्ति अट्ट भंगा। अकालं च वर्जयित्वा येन स्वाध्यायादि न संभाव्यते स खल्वकालस्तमपास्य काले कालं समाचरेदिति सर्वयोगोपसंग्रहार्थं निगमनम्, भिक्षावेलायां भिक्षां समाचरेत्, स्वाध्यायादिवेलायां स्वाध्यायादीनीति, उक्तं च- जोगो जोगो जिणसासणंमी त्यादि, इति सूत्रार्थः ।। ४ ।। अकालचरणे दोषमाह- अकाले ति सूत्रम्, अकालचारी कश्चित् साधुरलब्धभैक्षः केनचित् साधुना प्राप्ता भिक्षा न वेत्यभिहितः सन्नेवं ब्रूयात् कुतोऽत्र स्थण्डिलसंनिवेशे भिक्षा ?, स तेनोच्यते- अकाले चरसि भिक्षो! प्रमादात्स्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो न वेति, अकालचरणेनात्मानं च ग्लपयसि दीर्घाटनन्यूनोदरभावेन, संनिवेशं च गर्हसि भगवदाज्ञालोपतो दैन्यं प्रतिपद्येति सूत्रार्थः ॥ ५ ॥ यस्मादयं दोषः संभाव्यते तस्मादकालाटनं न कुर्यादिति । 'सति'त्ति सूत्रम्, सति विद्यमाने काले भिक्षासमये चरेद्भिक्षुः, अन्ये तु व्याचक्षते - स्मृतिकाल एव भिक्षाकालोऽभिधीयते, स्मर्यन्ते यत्र भिक्षाकाः स स्मृतिकालस्तस्मिन्, 'चरेद्भिक्षुः ' भिक्षार्थं यायात् कुर्यात् पुरुषकारम्, जङ्घाबले सति
® भणितं च- क्षेत्र कालो भाजनं त्रीण्यपि प्रभवन्ति हिण्डमानस्येत्यष्टौ भङ्गाः। योगो योगो जिनशासने।
For Private and Personal Use Only
पञ्चचममध्ययनं पिण्डेषणा,
द्वितीयोदेशकः
सूत्रम्
४-१३ असंस्तरणे पुनर्भिक्षाचर्या | कालादियतना।
।। २८८ ।।