________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||२६६॥
उ863868856001
अइभूमिं न गच्छेजा, गोअरग्गगओ मुणी। कुलस्स भूमिं जाणित्ता, मिभूमि परक्कमे ।। सूत्रम् २४ ।।
पश्चचममध्ययन तत्थेव पडिलेहिजा, भूमिभागं विअक्खणो। सिणाणस्स य वच्चस्स, संलोगं परिवजए।। सूत्रम् २५ ।।
पिण्डैषणा,
प्रथमोद्देशकः दगमट्टिअआयाणे, बीआणि हरिआणि अ। परिवजंतो चिट्टिज्जा, सव्विंदिअसमाहिए। सूत्रम् २६ ।।
सूत्रम् इहैव विशेषमाह-असंसत्तं ति सूत्रम्, असंसक्तं प्रलोकयेत् न योषिद्दष्टेदृष्टिं मेलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषप्रसङ्गात्, २४-२६
असंसक्ततथा नातिदूरं प्रलोकयेत दायकस्यागमनमात्रदेशं प्रलोकयेत्, परतश्चौरादिशङ्कादोषः, तथा उत्फुलं विकसितलोचनं न विणिज्झाए ।
प्रलोकनम्। त्ति न निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत गृहादलब्धेऽपि सति अजल्पन्- दीनवचनमनुच्चारयन्निति ॥२३॥ तथा- अइभूमिं न गच्छिज्जा इति सूत्रम्, अतिभूमिं न गच्छेद्- अननुज्ञातां गृहस्थैः, यत्रान्ये भिक्षाचरा । न यान्तीत्यर्थः, गोचराग्रगतो मुनिः, अनेनान्यदा तद्गमनासंभवमाह, किं तर्हि?, कुलस्य भूमिं- उत्तमादिरूपामवस्थां ज्ञात्वा
मितां भूमिं तैरनुज्ञातां पराक्रमेत्, यत्रैषामप्रीतिर्नोपजायत इति सूत्रार्थः ।। २४॥ विधिशेषमाह- तत्थेव त्ति सूत्रम्, तत्रैव तस्यामेव । मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना भूमिभागं उचितं भूमिदेशं विचक्षणो विद्वान्, अनेन केवलागीतार्थस्य भिक्षाटन
प्रतिषेधमाह, तत्र च तिष्ठन् स्नानस्य तथा वर्चसो विष्ठायाः संलोकं परिवर्जयेत्, एतदुक्तं भवति- स्नानभूमिकायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति सूत्रार्थः ।। २५ ।। किंच- दग त्ति सूत्रम्, उदकमृत्तिकादानं आदीयतेऽनेनेत्यादानो- मार्गः, उदकमत्तिकानयनमार्गमित्यर्थः, बीजानि शाल्यादीनि हरितानि च। दूर्वादीनि, चशब्दादन्यानि च सचेतनानि परिवर्जयस्तिष्ठेदनन्तरोदिते देशे सर्वेन्द्रियसमाहितः शब्दादिभिरनाक्षिप्तचित्त इति । सूत्रार्थः ।। २६॥
.
NAN
DEal
888888888888888
For Private and Personal Use Only