SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||२६०॥ पञ्चचममध्ययन पिण्डेषणा, प्रथमोद्देशकः सूत्रम् ३-८ आत्मसंयम विराधना। वाक्यशेषः, प्रेक्षमाणः प्रकर्षेण पश्यन् महीं भुवं चरेत् यायात्, केचिन्नेति योजयन्ति, न शेषदिगुपयोगेनेति गम्यते, न प्रेक्षमाण एव अपि तु वर्जयन् परिहरन् बीजहरितानीति, अनेनानेकभेदस्य वनस्पतेः परिहारमाह, तथा प्राणिनो द्वीन्द्रियादीन् तथा उदक अप्कायं मृत्तिकां च पृथिवीकायम्, चशब्दात्तेजोवायुपरिग्रहः। दृष्टिमानं त्वत्र लघुतरयोपलब्धावपि प्रवृत्तितो रक्षणायोगात् । महत्तरया तु देशविप्रकर्षणानुपलब्धेरिति सूत्रार्थः ॥ ३ ॥ उक्तः संयमविराधनापरिहारः,अधुना त्वात्मसंयमविराधनापरिहारमाह- ओवाय मिति सूत्रम्, व्याख्या-'अवपातं' गर्तादिरूपं विषमं निम्नोन्नतं स्थाणु ऊर्ध्वकाष्ठं विजलं विगतजलं कर्दमं परिवर्जयेत् एतत्सर्वं परिहरेत्, तथा संक्रमेण जलगर्तापरिहाराय पाषाणकाष्ठरचितेन न गच्छेत्, आत्मसंयमविराधनासंभवात्, अपवादमाह-विद्यमाने पराक्रमे-अन्यमार्ग इत्यर्थः, असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः ।। ४॥ अवपातादौ दोषमाह- पवडते त्ति सूत्रम्, व्याख्या- प्रपतन्वाऽसौ तत्र अवपातादौ प्रस्खलन्वा संयतः साधुः हिंस्या व्यापादयेत् प्राणिभूतानि प्राणिनो- द्वीन्द्रियादयः भूतानि- एकेन्द्रियाः, एतदेवाह-त्रसानथवा स्थावरान्, प्रपातेनात्मानं चेत्येवमुभयविराधनेति सूत्रार्थः ।। ५॥ यतश्चैवं तम्हा सूत्रम्, व्याख्या- तस्मात्तेन- अवपातादिमार्गेण न गच्छेत् संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः, सत्यन्येने ति अन्यस्मिन् समादौ मार्गेणे ति मार्गे, छान्दसत्वात्सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन्मार्गे तेनैवावपातादिना यतमेव पराक्रमेत् यतमिति क्रियाविशेषणम्, यतमात्मसंयमविराधनापरिहारेण यायादिति । । सूत्रार्थः ।। ६ ।। अत्रैव विशेषतः पृथिवीकाययतनामाह- इंगाल मिति सूत्रम्, आङ्गारमिति अङ्गाराणामयमाङ्गारस्तमाङ्गारं। राशिम्, एवं क्षारराशिम्, तुषराशिं च गोमयराशिं च, राशिशब्दः प्रत्येकमभिसंबध्यते सरजस्काभ्यां पद्भ्यां सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां संयतःसाधुः तं अनन्तरोदितं राशिं नाक्रामेत्, मा भूत्पृथिवीरजोविराधनेति सूत्रार्थः॥ ७ ॥ अत्रैवाप्काया For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy