________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ २५५॥
॥ अथ पञ्चममध्ययन पिण्डैषणाख्यम॥
॥पञ्चमाध्यने प्रथमोद्देशकः ।। अधुना पिण्डैषणाख्यमारभ्यते, अस्य चायमभिसंबन्धः- इहानन्तराध्ययने 'साधोराचारः षड्जीवनिकायगोचरः प्रायः । इत्येतदुक्तम्, इह तु धर्मकाये सत्यसौ स्वस्थे सम्यक्पाल्यते, स चाहारमन्तरेण प्रायः स्वस्थो न भवति, स च सावद्येतरभेद
इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च- से संजए समक्खाए, निरवजाहारि जे विऊ । धम्मकायट्टिए सम्म, सुहजोगाण साहए॥१॥ इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, भङ्गयन्तरेणैतदेवाह भाष्यकार:
भा०- मूलगुणा वक्खाया उत्तरगुणअवसरेण आयायं । पिंडज्झयणमियाणिं निक्खेवे नामनिप्फन्ने ।। ६१।।। । मूलगुणाः प्राणातिपातनिवृत्त्यादयः व्याख्याताः सम्यक् प्रतिपादिता अनन्तराध्ययने, ततश्च उत्तरगुणावसरेण उत्तरगुणप्रस्तावेनायातमिदमध्ययनं- इदानीं यत्प्रस्तुतम् । इह चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः ।। ६१ ।। तथा चाहनेक्षेपे नामनिष्पन्ने, किमित्याह
नि०-पिंडो अएसणाय दुपयं नामंत्तस्स नायव्वं। चउचउनिक्खेवेहिं परूवणा तस्स कायव्वा ।। २३४ ।। नि०-नामंठवणापिंडो दव्वे भावे अहोइ नायव्वो। गुडओयणाइ दव्वे भावे कोहाइया चउरो।। २३५ ।। नि०-पिडि संघाए जम्हा ते उड़या संघयाय संसारे । संघाययंति जीवं कम्मेणट्ठप्पगारेण ।। २३६ ।। नि०- दब्वेसणा उ तिविहा सचित्ताचित्तमीसदब्वाणं । दुपयचउप्पयअपया नरगयकरिसावणदुमाणं ।। २३७ ।। 0स संयतः समाख्यातो, निरवद्याहार यो विद्वान् । धर्मकायस्थितः सम्यक्, शुभयोगानां साधकः ।। १।।
पाचममध्ययन पिण्डैषणा, प्रथमोद्देशकः भाष्यम६१ उत्तर गुणस्वरूपम्। नियुक्तिः २३४-२४४ पिण्डस्य एषणायाश्च निक्षेपाः।
88888888880000000000000000000000000000000000000000000000
॥२५५।।
For Private and Personal Use Only