________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। २५१ ।।
www.kobatirth.org
जया लोगमलोगं च, जिणो जाणड़ केवली । तया जोगे निरुंभित्ता, सेलेसिं पडिवज्र ॥ २३ ॥ जया जोगे निरुंभित्ता, सेलेसिं पडिवजड़। तया कम्मं खवित्ता णं, सिद्धिं गच्छ नीरओ ।। २४ ।।
जया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरओ। तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ।। २५ ।।
साम्प्रतं षष्ठेऽधिकारे धर्मफलमाह जया इत्यादि, 'यदा' यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति - विविधं जानाति सदा तस्मिन् काले गतिं नरकरगत्यादिरूपां बहुविधां स्वपरगतभेदेनानेकप्रकारां सर्वजीवानां जानाति, यथाऽवस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् ।। १४ ।। उत्तरोत्तरां फलवृद्धिमाह - जया इत्यादि, यदा गतिं बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापंच- बहुविधगतिनिबन्धनं (च) तथा बन्धं जीवकर्मयोगदुःखलक्षणं मोक्षं च तद्वियोगसुखलक्षणं जानाति ।। १५ ।। जया इत्यादि, यदा पुण्यं च पापं च बन्धं मोक्षं च जानाति तदा निर्विन्ते- मोहाभावात् सम्यग्विचारयत्यसारदुःखरूपतया भोगान् शब्दादीन् यान् दिव्यान् यांश्च मानुषान्, शेषास्तु वस्तुतो भोगा एव न भवन्ति ।। १६ ।। जया इत्यादि, यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् तदा त्यजति संयोगं संबन्धं द्रव्यतो भावतः साभ्यन्तरबाह्यं क्रोधादिहिरण्यादिसंबन्धमित्यर्थः ।। १७ ।। जया इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति प्रकर्षेण व्रजत्यपवर्गं प्रत्यनगारम्, द्रव्यतो भावतश्चाविद्यमानागारमिति भावः ।। १८ ।। जया इत्यादि, यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदा संवरमुक्किडं ति प्राकृतशैल्या उत्कृष्टसंवरं धर्मं- सर्वप्राणातिपातादिविनिवृत्तिरूपम्, चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरंसम्यगासेवत इत्यर्थः ।। १९ ।। जया इत्यादि, यदोत्कृष्टसंवरं धर्मं स्पृशत्यनुत्तरं तदा धुनोति-अनेकार्थत्वात्पातयति कर्मरजः कर्मैव आत्मरञ्जनाद्रज इव रजः, किंविशिष्टमित्याह- अबोधिकलुषकृतं अबोधिकलुषेण मिथ्यादृष्टिनोपात्तमित्यर्थः ।। २० ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीव
निकायम
सूत्रगाथा
१४-२५ जीवाजीवादि
ज्ञानेन मोक्षप्राप्तिः ।
।। २५१ ।।