________________
Shri Mal
Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि०
वृत्तियुतम्
।। २३४ ।।
www.kobatirth.org
महव्वए उवडिओमि सव्वाओ मुसावायाओ वेरमणं २ ॥ सूत्रम् ४ ॥
इदानीं द्वितीयमाह- अहावरे इत्यादि, अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणम्, सर्वं भदन्त ! मृषावादं प्रत्याख्यामीति पूर्ववत्, तद्यथा क्रोधाद्वा लोभाद्वे त्यनेनाद्यन्तग्रहणान्मानमायापरिग्रहः, भयाद्वा हास्याद्वा इत्यनेन तु प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः, णेव सयं मुसं वएज्ज त्ति नैव स्वयं मृषा वदामि नैवान्यैर्मृषा वादयामि मृषा वदतोऽप्यन्यान् न समनुजानामि इत्येतत् यावज्जीव मित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयं- मृषावादश्चतुर्विधः, तद्यथा-सद्भावप्रतिषेधः असद्भावोद्भावनं अर्थान्तरं गर्हा च, तत्र सद्भावप्रतिषेधो यथा नास्त्यात्मा नास्ति पुण्यं पापं चेत्यादि, असद्भावोद्भावनं यथा अस्त्यात्मा सर्वगतः श्यामाकतन्दुलमात्रो वेत्यादि, अर्थान्तरं गामश्वमभिदधत इत्यादि, गर्हा काणं काणमभिदधत इत्यादिः, पुनरयं क्रोधादिभावोपलक्षितश्चतुर्विधः, तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येष्वन्यथाप्ररूपणात् क्षेत्रतो लोकालोकयोः कालतो रात्र्यादौ भावतः क्रोधादिभिः इति । द्रव्यादिचतुर्भङ्गी पुनरियं दव्वओ णामेगे मुसावाए णो भावओ भावओ णामेगे णो दव्वओ एगे दव्वओऽवि भावओऽवि एगे णो दव्वओ णो भावओ । तत्थ कोइ कहिंचि हिंसुजओ भणइ - इओ तए पसुमिणा (गा) इणो दिट्ठत्ति?, सो दयाए दिट्ठावि भणड़- ण दिट्ठत्ति, एस दव्वओ मुसावाओ नो भावओ, अवरो मुसं भणीहामित्ति परिणओ सहसा सच्चं भणइ एस भावओ नो दव्वओ, अवरो मुसं भणीहामित्ति परिणओ मुसं चेव भणइ, एस दव्वओऽवि भावओऽवि, चरमभंगो पुण सुण्णो २ ।।
© द्रव्यतो नामैको मृषावाद नो भावतः भावतो नामैको नो द्रव्यतः एको द्रव्यतोऽपि भावतोऽपि एको नो द्रव्यतो नो भावतः, तत्र कोऽपि कुत्रचित् हिंसोद्यतो भणति इतस्त्वया पशुमृगादयो दृष्टा इति? स दयया दृष्टा अपि भणति न दृष्टा इति एष द्रव्यतो मृषावादो न भावतः, अपरो मृषा भणिष्यामीति परिणतः सहसा सत्यं भणति एष भावतो नो द्रव्यतः, अपरो मृषा भणिष्यामीति परिणतो मृषैव भणति एष द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनः शून्यः ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीव
निकायम.
सूत्रम् ४ चारित्रधर्मे
पञ्चमहाव्रत
स्वरूपम्।
।। २३४ ।।