________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
चतुर्थमध्ययन षड्जीव
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२३१॥
निकायम,
सूत्रम् चारित्रधर्म
स्वरूपमा
ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामीति । आह-यद्येवमतीतदण्डप्रतिक्रमणमात्रमस्यैदम्पर्यन प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेवम्, न करोमीत्यादिना तदुभयसिद्धेरिति ।।
पढमे भंते! महब्वए पाणाइवायाओ वेरमणं, सव्वं भंते! पाणाइवायं पचक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, नेव सयं पाणे अइवाइजा नेवऽन्नेहिं पाणे अइवायाविज्जा पाणे अइवायतेऽवि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पढमे भंते! महव्वए उवढिओमि सव्वाओ पाणाइवायाओ वेरमणं१॥ सूत्रम् ॥
अयंचात्मप्रतिपत्त्यर्हो दण्डनिक्षेपः सामान्यविशेषरूप इति, सामान्येनोक्तलक्षण एव, स तु विशेषतः पञ्चमहाव्रतरूपतयाऽप्यङ्गीकर्तव्य इति महाव्रतान्याह- पढमे भंते इत्यादि, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथमं तस्मिन्, भदन्तेति गुरोरामन्त्रणम्, महाव्रत इति महच्च तद्वतं च महाव्रतम्, महत्त्वं चास्य श्रावकसंबन्ध्यणुव्रतापेक्षयेति। अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गकशताधिकारः, तत्रेयं गाथा सीयालं भंगसयं पञ्चक्खाणंमि जस्स उवलद्धं । सो पञ्चखाणकुसलो सेसा सव्वे अकुसला उ॥१॥ एनांचासंमोहार्थमुपरिष्टाव्याख्यास्यामः । तस्मिन् महाव्रते प्राणातिपाताद्विरमण मिति प्राणा- इन्द्रियादयः तेषामतिपातः प्राणातिपात:- जीवस्य महादुःखोत्पादनम्, न तु जीवातिपात एव, तस्मात्-प्राणातिपाताद्विरमणम्, विरमणं नाम सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनम्, भगवतोक्तमिति वाक्यशेषः, यतश्चैवमत उपादेयमेतदिति विनिश्चित्य सर्व । भदन्त! प्राणातिपातं प्रत्याख्यामीति सर्वमिति-निरवशेषम्, न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणम्, प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे आङाभिमुख्ये ख्या प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्या
||२३१॥
For Private and Personal Use Only