SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥ १८९॥ क्षुल्लिकाचारकथा, सूत्रम् ११-१५ मूलको लोकप्रतीतः, शृङ्गबेरं च आर्द्रकं च तथा इक्षुखण्डं च लोकप्रतीतम्, अनिर्वृतग्रहणं सर्वत्राभिसंबध्यते, अनिर्वृत-तृतीयमध्ययन अपरिणतमनाचरितमिति, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते ३२-३३-३४, तथा कन्दो वज्रकन्दादिः ३५, मूलं च सट्टामूलादि, सचित्तमनाचरितं ३६, तथा फलं त्रपुष्यादि ३७, बीजं च तिलादि ३८, आमकं सचित्तमनाचरितमिति सूत्रार्थः॥ ७॥ किंच-सोवच्चले' त्ति सूत्रम्, अस्य व्याख्या- सौवर्चलं ३९, सैन्धवं ४०, लवणं च सांभरिलवणं ४१, रुमालवणं च ४२, साधुस्वरूपम्। आमकमिति सचित्तमनाचरितम्, सामुद्र- समुद्रलवणमेव ४३, पांशुक्षारश्च ऊषरलवणं ४४, कृष्णलवणं च सैन्धवलवण-8 पर्वतैकदेशजं ४५, आमकमनाचरितमिति सूत्रार्थः ।। ८॥ किं च-'धूवणे'त्ति सूत्रम्, अस्य व्याख्या- धूपनमित्यात्मवस्त्रादेरनाचरितम्, प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते ४६, वमनं मदनफलादिना ४७, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं ४८, विरेचनं दन्त्यादिना ४९, तथा अञ्जनं रसाञ्जनादिना ५०, दन्तकाष्ठं च प्रतीतं ५१, तथा गात्राभ्यङ्गस्तैलादिना ५२, विभूषणं गात्राणामेव ५३, इति सूत्रार्थः ॥९॥ क्रियासूत्रमाह-सव्वमेयं ति सूत्रम्, अस्य व्याख्यासर्वमेतद्- औद्देशिकादि यदनन्तरमुक्तमिदमनाचरितम्, केषामित्याह- निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः, त एव विशेष्यन्तेसंयमे, चशब्दात्तपसि, युक्तानां- अभियुक्तानां लघुभूतविहारिणा लघुभूतो- वायुः, ततश्च वायुभूतोऽप्रतिबद्धतया विहारो येषां ते लघुभूतविहारिणस्तेषाम्, निगमनक्रियापदमेतदिति सूत्रार्थः ॥ १०॥ किमित्यनाचरितं?, यतस्त एवंभूता भवन्तीत्याह पंचासवपरिणाया, तिगुत्ता छसुसंजया। पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो।। सूत्रम् ११ ।। आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसलीणा, संजया सुसमाहिया ।। सूत्रम् १२ ।। परीसहरिऊदंता, धूअमोहा जिइंदिया। सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ।। सूत्रम् १३॥ ॥१८९॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy