________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shes kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 11१८८॥
तृतीयमध्ययन क्षुल्लिकाचारकथा, सूत्रम् १-१०
औद्देशिकादित्रिपञ्चाशदनाचीर्णाः।
उपादानम्, अर्थपदमेवोक्तार्थं तदित्यन्ये अभिदधति, अस्मिन् पक्षे सकलद्यूतोपलक्षणार्थं नालिकाग्रहणम्, अष्टापदद्यूतविशेषपक्षे चोभयोरिति । तथा छत्रस्य च लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यनायेति, आगाढग्लानाद्यालम्बनं मुक्त्वाऽनाचरितम्, प्राकृतशैल्या चात्रानुस्वारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथाश्रुतिप्रामाण्यादिति १९, तथा तेगिच्छं ति, चिकित्साया भावश्चैकित्स्य- व्याधिप्रतिक्रियारूपमनाचरितं २०, तथोपानही पादयोरनाचरिते, पादयोरिति साभिप्रायकम्, न त्वापत्कल्पपरिहारार्थमुपग्रहधारणेन २१, तथा समारम्भश्च समारम्भणं च ज्योतिषः अग्नेस्तदनाचरितमिति २२, दोषा अष्टापदादीनां क्षुण्णा एवेति सूत्रार्थः ॥ ४॥ किंच-'सिज्जायर'सूत्रम्, अस्य व्याख्या- शय्यातरपिण्डश्वानाचरितः, शय्या- वसतिस्तया तरति संसारमिति शय्यातरः- साधुवसतिदाता, तत्पिण्डः २३, तथा आसन्दकपर्यको अनाचरिती, एतौ च लोकप्रसिद्धावेव २४-२५, तथा गृहान्तरनिषद्या अनाचरिता, गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनम्, चशब्दात्पाटकादिपरिग्रहः२६, तथा गात्रस्य-कायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि- पङ्कापनयनलक्षणानि, चशब्दादन्यसंस्कारपरिग्रहः २७, इति सूत्रार्थः ॥५॥ तथा-'गिहिणो'त्ति सूत्रम्, अस्य व्याख्या- गृहिणो गृहस्थस्य वैयावृत्त्यं व्यावृत्तभावो-वैयावृत्त्यम्, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, एतदनाचरितमिति २८, तथा च 'आजीववृत्तिता' जातिकुलगणकर्मशिल्पानामाजीवनं आजीवस्तेन वृत्तिस्तद्भाव आजीववृत्तिता- जात्याद्याजीवनेनात्मपालनेत्यर्थः, इयं चानाचरिता १२९, तथा तप्तानिवृतभोजित्वं तप्तं च तदनिर्वृतं च- अत्रिदण्डोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते तद्धोजित्वं-मिश्रसचित्तोदकभोजित्वमित्यर्थः, इदंचानाचरितं ३०, तथा आतुरस्मरणानि च क्षुधाद्यातुराणां पूर्वोपभुक्तस्मरणानि च अनाचरितानि, आतुरशरणानि वा-दोषातुराश्रयदानानि ३१, इति सूत्रार्थः ॥६॥ किंच-'मूलए'त्ति सूत्रम्, अस्य व्याख्या
॥१८॥
For Private and Personal Use Only