________________
Shri Mahavir Jain Aradhana Kendra
T
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। १८६ ।।
www.kobatirth.org
संनिही गिहिमत्ते य, रायपिंडे किमिच्छए। संवाहणा दंतपहोयणा व संपुच्छणा देहपलोयणा य ।। सूत्रम् ३ ।। अट्ठावए य नालीए, छत्तस्स व धारणट्ठाए । तेगिच्छं पाहणा पाए, समारंभं च जोइणो ।। सूत्रम् ४ ॥ सिज्जायरपिंडं च, आसंदीपलियंकए। गिहंतरनिसिज्जा य, गावस्सुव्वट्टणाणि य ।। सूत्रम् ५ ।। गिहिणो वे आवडियं, जाय आजीववत्तिया । तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य ।। सूत्रम् ६ ।। मूलए सिंगबेरे य, उच्छुखंडे अनिव्वुडे। कंदे मूले य सच्चित्ते, फले बीए य आमए । सूत्रम् ७ ।। सोवच्चले सिंधवे लोणे, रोमालोणे य आमए। सामुद्दे पंसुखारे य, कालालोणे य आमए । सूत्रम् ८ ।। धुवणे त्ति वमणे य, वत्थीकम्म विरेयणे। अंजणे दंतवणे य, गायाब्भंगविभूसणे ।। सूत्रम् ९ ।।
सव्वमेयमणान्नं, निग्गंथाण महेसिणं। संजमंमि अ जुत्ताणं, लहुभूयविहारिणं ।। सूत्रम् १० ।।
इह संहितादिक्रमः क्षुण्णः, भावार्थस्त्वयं- संयमे द्रुमपुष्पिकाव्यावर्णितस्वरूपे शोभनेन प्रकारेण आगमनीत्या स्थित आत्मा येषां ते सुस्थितात्मानस्तेषाम्, त एव विशेष्यन्ते विविधं अनेकैः प्रकारैः प्रकर्षेण भावसारं मुक्ताः परित्यक्ताः बाह्याभ्यन्तरेण ग्रन्थेनेति विप्रमुक्तास्तेषाम्, त एव विशेष्यन्ते - त्रायन्ते आत्मानं परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः परं तीर्थकराः, स्वतस्तीर्णत्वाद्, उभयं स्थविरा इति, तेषामिदं वक्ष्यमाणलक्षणं अनाचरितं अकल्प्यम्, केषामित्याहनिर्ग्रन्थानां साधूनामित्यभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः, अथवा महान्तं एषितुं शीलं येषां ते महैषिणस्तेषाम्, इह च पूर्वपूर्वभाव एव उत्तरोत्तरभावो नियमितो हेतुहेतुमद्भावेन वेदितव्यः, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मनिबन्धनत्वाद्विप्रमुक्तेः, एवं शेषेष्वपि भावनीयम्, अन्ये तु पश्चानुपूर्व्या हेतुहेतुमद्भावमित्थं
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयमध्ययनं क्षुल्लिका
चारकथा,
सूत्रम् १-१० औदेशिकादित्रिपञ्चाशद
नाचीणाः ।
।। १८६ ।।