SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१० ॥ चारकथा, कथा। १९६ ।। साम्प्रतमधिकृतकथामेव प्रकारान्तरेणाह- या स्वसमयवर्जा खलुशब्दस्य विशेषणार्थत्वादत्यन्तं प्रसिद्धनीत्या। तृतीयमध्ययन स्वसिद्धान्तशून्या, अन्यथा विधिप्रतिषेधद्वारेण विश्वव्यापकत्वात् स्वसमयस्य तद्बर्जा कथैव नास्ति, भवति कथा लोकवेदसंयुक्ता, क्षुल्लिकालोकग्रहणाद्रामायणादिपरिग्रहः, वेदास्तु ऋग्वेदादय एव, एतदुक्ता कथेत्यर्थः, परसमयानांच सायशाक्यादिसिद्धान्तानां : नियुक्तिः च कथा या सा सामान्यतो दोषदर्शनद्वारेण वा एषा विक्षेपणी नाम, विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे १९३-२०५ श्रोतेति विक्षेपणी, तथाहि- सामान्यत एव रामायणादिकथायामिदमपि तत्त्वमिति भवति सन्मार्गाभिमुखस्य ऋजुमतेः कथानिक्षेपे कुमार्गप्रवृत्तिः, दोषदर्शनद्वारेणाप्येकेन्द्रियप्रायस्याहो मत्सरिण एत इति मिथ्यालोचनेनेति गाथार्थः ।।१९७ ॥ अस्या अकथने । आक्षेपण्यादि चतुर्विधधर्म प्राप्ते विधिमाह- या स्वसमयेन- स्वसिद्धान्तेन करणभूतेन पूर्वमाख्याता- आदौ कथिता तां क्षिपेत् परसमये क्वचिद्दोषदर्शनद्वारेण । यथाऽस्माकमहिंसादिलक्षणो धर्मः साङ्गयादीनामप्येवम्, 'हिंसा नाम भवेद्धर्मोन भूतो न भविष्यति' इत्यादिवचनप्रामाण्यात्, किंत्वसावपरिणामिन्यात्मनि न युज्यते, एकान्तनित्यानित्ययोहिँसाया अभावादिति, अथवा परशासनव्याक्षेपात्-‘सुपां सुपो । भवन्ति' इति सप्तम्यर्थे पञ्चमी, परशासनेन कथ्यमानेन व्याक्षेपे-सन्मार्गाभिमुखतायां सत्यां परस्य समयं कथयति, दोषदर्शनद्वारेण केवलमपीति गाथार्थः ॥१९८॥उक्ता विक्षेपणी, अधुना संवेजनीमाह- आत्मपरशरीरविषया इहलोके चैव तथा परलोकेइहलोकविषया परलोकविषयाच एषा चतुर्विधा खलु अनन्तरोक्तेन प्रकारेण कथा तु संवेजनी भवति, संवेज्यते संवेगंग्राहातेऽनया श्रोतेति संवेजनी, एषोऽधिकृतगाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदं-संवेयणी कहा चउव्विहा, तंजहाआयसरीरसंवेयणी परसरीरसंवेयणी इहलोयसंवेयणी परलोयसंवेयणी, तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हच्चयं सरीरयं । संवेजनी कथा चतुर्विधा, तद्यथा-आत्मशरीरसंवेजनी परशरीरसंवेजनी इहलोकसंवेजनी परलोकसंवेजनी, तत्रात्मशरीरसंवेजनी यथा यदेतदस्मदीयं शरीरक For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy