________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीदशवैकालिकं श्रीहारि०
वृत्तियुतम्
॥१७॥
कथा।
नि०-थोवंपिपमायकयं कम्मं साहिबई जहिं नियमा। पउरासुहपरिणामं कहाइ निव्वेयणीइ रसो।। २०२।
तुतीयमध्ययन नि०-सिद्धी य देवलोगो सुकुलुप्पत्तीय होइ संवेगो। नरगो तिरिक्खजोणी कुमाणुसत्तं च निव्वेओ॥२०३ ।।
क्षुल्लिका
चारकथा, नि०- वेणइयस्स (य) पढमया कहा उ अक्खेवणी कहेयव्वा । तो ससमयगहियत्थो कहिन विक्खेवणी पच्छा ।। २०४॥
नियुक्तिः नि०- अखेवणीअक्खित्ता जे जीवा ते लभन्ति संमत्तं । विक्खेवणीएँ भजंगाढतरागंच मिच्छत्तं ।। २०५॥
१९३-२०५
कथानिक्षेपे धर्मविषया कथा धर्मकथा असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता- तीर्थकरगणधरप्ररूपितेत्यर्थः, चातुर्विध्यमेवाह-आक्षेपणी
आक्षेपण्यादि विक्षेपणी संवेगश्चैव निर्वेद इति, सूचनात्सूत्र'मिति न्यायात् संवेजनी निवेदनी चैवेत्युपन्यासगाथाक्षरार्थः ।। १९३ ।। भावार्थ ।।
चतुर्विधधर्म त्वाह-आचारो-लोचास्नानादिः व्यवहार:- कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः प्रज्ञप्तिश्चैव-संशयापन्नस्य मधुरवचनैः ।। प्रज्ञापना दृष्टिवादश्च- श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनम्, अन्ये त्वभिदधति- आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, एषा-अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन: इत्याक्षेपणी भवतीति गाथार्थः ॥१९४ ॥ इदानीमस्या रसमाह-विद्या- ज्ञानं अत्यन्तापकारिभावतमोभेदकं चरणं-चारित्रं समग्रविरतिरूपं तपः- अनशनादि पुरुषकारश्च-कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः समितिगुप्तयः- पूर्वोक्ता एव, एतदुपदिश्यते । खल-श्रोतभावापेक्षया सामीप्येन कथ्यते, एवं यत्र कचिदसावपदेश: कथाया आक्षेपण्या रसो- निष्यन्दः सार इति गाथार्थः ।। १९५ ।। गताऽऽक्षेपणी, विक्षेपणीमाह- कथयित्वा स्वसमय-स्वसिद्धान्तं ततः कथयति परसमयं- परसिद्धान्तमित्येको भेदः, अथवा विपर्यासाद्-व्यत्ययेन कथयति-परसमयं कथयित्वा स्वसमयमिति द्वितीयः, मिथ्यासम्यग्वादयोरेवमेव भवतो द्वौ भेदाविति,
For Private and Personal Use Only