________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रामण्य
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।।१५९॥
दाहरणम्।
हत्थित्ति । दार्टान्तिकयोजना कृतैवेति सूत्रार्थः।।१०॥एवं कुर्वन्ति संबुद्धा बुद्धिमन्तो बुद्धाः सम्यग्दर्शनसाहचर्येण दर्शनकीभावेन द्वितीयमध्ययन वा बुद्धाःसंबुद्धा- विदितविषयस्वभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते- पण्डिताः प्रविचक्षणाः, तत्र पण्डिताः
पूर्वकम्, सम्यग्ज्ञानवन्तः प्रविचक्षणा:-चरणपरिणामवन्तः, अन्ये तु व्याचक्षते-संबुद्धाः सामान्येन बुद्धिमन्तः पण्डिता वान्तभोगा
सूत्रम् ८-११ सेवनदोषज्ञाः प्रविचक्षणा अवद्यभीरव इति, किं कुर्वन्ति?- विनिवर्तन्ते भोगेभ्यः विविधं- अनेकैः प्रकारैरनादिभवाभ्यासबलेन संयमस्थैर्यो
पदेश: कदर्थ्यमाना अपि मोहोदयेन (वि) निवर्तन्ते भोगेभ्यो-विषयेभ्यः, यथा क इत्यत्राह- यथाऽसौ पुरुषोत्तमः रथनेमिः । आह
रथनेमिबोध:कथं तस्य पुरुषोत्तमत्वम्, यो हि प्रव्रजितोऽपि विषयाभिलाषीति?, उच्यते, अभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्त्वभिलाषानुरूपं । नपुरपण्डितोचेष्टत एवेति। अपरस्त्वाह- दशवैकालिकं नियतश्रुतमेव, यत उक्तं- णायज्झयणाहरणा इसिभासियमो पइन्नयसुया य। एए होति। अणियया णिययं पुण सेसमुस्सन्नं ।।१।।तत्कथमभिनवोत्पन्नमिदमुदाहरणं युज्यते इति?, उच्यते, एवम्भूतार्थस्यैव नियतश्रुतेऽपि भावाद्, उत्सन्नग्रहणाच्चादोषः, प्रायो नियतं न तु सर्वथा नियतमेवेत्यर्थः । ब्रवीमीति न स्वमनीषिकया किन्तु तीर्थकरगणधरोपदेशेन । उक्तोऽनुगमो, नयाः पूर्ववदिति ।। इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां द्वितीयं श्रामण्यपूर्वकाध्ययनं सम्पूर्णम् ॥२॥
॥ सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्तौ
द्वितीयमध्ययनं श्रामण्यपूर्वकाख्यं समाप्तमिति ।।
॥१५९॥
0 दर्शनपरिणाम० (प्र०) | 0 ज्ञाताध्ययनाहरणानि ऋषिभाषितानि प्रकीर्णकश्रुतं च । एतानि भवन्ति अनियतानि नियतं पुनः शेषमुत्सन्नं (प्रायः) ॥१॥
For Private and Personal Use Only