________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||१२५॥
प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् ४-५ उपनयशुद्धिः नियुक्ति:१४४ षष्ठो विपक्षप्रतिषेधावयवः।
सायं ति सातवेदनीयं कर्म संमत्तं ति सम्यक्त्वं सम्यग्भावः सम्यक्त्वं-सम्यक्त्वमोहनीयं कर्मैव, पुमं ति पुंवेदमोहनीयं हास ति हस्यतेऽनेनेति हासः तद्भावो हास्य- हास्यमोहनीयम्, रम्यतेऽनयेति रतिः- क्रीडाहेतुः रतिमोहनीयं कर्मैव, आउनामगोयसुह ति अत्र शुभशब्दः प्रत्येकमभिसंबध्यते अन्ते वचनात्, ततश्च आयुः शुभं नाम शुभंगोत्रं शुभम्, तत्रायुःशुभं तीर्थकरादिसम्बन्धि नामगोत्रे अपि कर्मणी शुभे तेषामेव भवतः, तथाहि- यशोनामादि शुभं तीर्थकरादीनामेव भवति, तथोच्चैर्गोत्रं तदपि शुभं तेषामेवेति, धर्मफल मिति धर्मस्य फलं धर्मफलम्, धर्मेण वा फलं धर्मफलम्, एतद् अहिंसादेर्जिनोक्तस्यैव धर्मस्य फलम्, अहिंसादिना जिनोक्तेनैव वा धर्मेण फलमवाप्यते, सर्वमेव चैतत्सुखहेतुत्वाद्धितम्, अतःस एव धर्मो मङ्गलं न श्वशुरादयः, तथाहि- मङ्गयते हितमनेनेति मङ्गलम्, तच्च यथोक्तधर्मेणैव मङ्गयते नान्येन, तस्मादसावेव मङ्गलं न जिनवचनबाह्याः श्वशुरादय इति स्थितम् । आह-'मङ्गलबुद्ध्यैव जनः प्रणमती' त्युक्तं तत्कथं ? इति, उच्यते, मङ्गलबुद्ध्यापिगोपालाङ्गनादिर्मोहतिमिरोपप्लुतबुद्धिलोचनो जनः प्रणमन्नपि न मङ्गलत्वनिश्चयायालम्, तथाहि न तैमिरिकद्विचन्द्रोपदर्शनं सचेतसां चक्षुष्मतां द्विचन्द्राकारायाः प्रतीते: प्रत्ययतां प्रतिपद्यते, अतद्रूप एव तद्रूपाध्यारोपद्वारेण तत्प्रवृत्तेरिति । 'आइदुगं ति आद्यद्वयं प्रागुक्तं तस्मिन् आद्यद्वयविषये, विपक्षप्रतिषेधः, मो इति निपातो वाक्यालङ्कारार्थः 'एष' इति यथा वर्णित इति गाथार्थः॥ १४३ ।। इत्थमाद्यद्वयविपक्षप्रतिषेधः प्रतिपादितः, सम्प्रति हेतुतच्छुद्ध्योर्विपक्षप्रतिषेधप्रतिपिपादयिषयेदमाह
नि०-अजिइंदिय सोवहिया वहगा जइ तेऽवि नाम पुजंति । अग्गीवि होज सीओ हेउविभत्तीण पडिसेहो।। १४४ ।। न जितानि श्रोत्रादीनीन्द्रियाणि यैस्ते तथोच्यन्ते, उपधिश्छद्म मायेत्यनर्थान्तरम्, उपधिना सह वर्तन्त इति सोपधयो० पर्यायाः (प्र०)।
॥१२५ ॥
For Private and Personal Use Only