________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि०
वृत्तियुतम्
।। १२४ ।।
www.kobatirth.org
न भण्यते, तथाहि - अत्र दृष्टान्ते भण्यमाने प्रतिज्ञादीनामिव द्विरूपस्यापि दृष्टान्तस्यार्हत्साधुलक्षणस्य एतावेव विपक्षतत्प्रतिषेधावुपपद्येते, ततश्च साधुलक्षणस्य दृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग् वक्तव्यौ भवतः, तथा च सति ग्रन्थलाघवं जायते, तथा प्रतिज्ञाहेतूदाहरणरूपाः सविशुद्धिकास्त्रयोऽप्यवयवाः क्रमेणोक्ता भवन्तीति, अत्रोच्यते, इहाभिधीयमाने दृष्टान्तस्येव प्रतिज्ञादीनामपि प्रत्येकमाशङ्कातत्प्रतिषेधो वक्तव्यौ स्तः, तथा च सत्यवयवबहुत्वम्, दृष्टान्तस्य वा प्रतिज्ञादीनामिव विपक्षतत्प्रतिषेधाभ्यां पृथगाशङ्कातत्प्रतिषेधौ न वक्तव्यौ स्याताम्, एवं सति दशावयवा न प्राप्नुवन्ति, दशावयवं चेदं वाक्यं भङ्ग्यन्तरेण प्रतिपिपादयिषितम्, अस्यापि न्यायस्य प्रदर्शनार्थम्, अत एव यदुक्तं साधुलक्षणदृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग् वक्तव्यौ स्यातामित्यादि तदपाकृतं वेदितव्यम्, इत्यलं प्रसङ्गेन । एवं प्रतिज्ञादीनां प्रत्येकं विपक्षोऽभिहितः, अधुनाऽयमेव प्रतिज्ञादिविपक्षः पञ्चमोऽवयवो वर्तत इत्येतद्दर्शयन्निदमाह
Acharya Shri Kailassagarsuri Gyanmandir
नि० एवं तु अवयवाणं चउण्ह पडिवक्खु पंचमोऽवयवो। एत्तो छट्टोऽवयवो विवक्खपडिसेह तं वोच्छं ।। १४२ ।। एवं इत्ययम्, एव (वं) कार उपप्रदर्शने, तुरवधारणे, अयमेव अवयवानां प्रमाणाङ्गलक्षणानां चतुर्णां प्रतिज्ञादीनां प्रतिपक्षो विपक्षः, पञ्चमोऽवयव इति, आह- दृष्टान्तस्याप्यत्र विपक्ष उक्त एव, तत्किमर्थं चतुर्णामित्युक्तं ?, उच्यते, हेतो: सपक्षविपक्षाभ्यामनुवृत्तिव्यावृत्तिरूपत्वेन दृष्टान्तधर्मत्वात्, तद्विपक्ष एव चास्यान्तर्भावाददोष इति । उक्तः पञ्चमोऽवयवः, षष्ठ उच्यते, तथा चाह- इत उत्तरत्र षष्ठोऽवयवो विपक्षप्रतिषेधस्तं वक्ष्ये अभिधास्य इति गाथार्थः ।। १४२ ।। इत्थं सामान्येनाभिधायेदानीमाद्यद्वयविपक्षप्रतिषेधमभिधातुकाम आह
नि०- सायं संमत्तं पुमं हासं रइ आउनामगोयसुहं धम्मफलं आइदुगे विवक्खपडिसेह मो एसो ।। १४३ ।।
For Private and Personal Use Only
प्रथममध्ययनं
द्रुमपुष्पिका, सूत्रम् ४-५ उपनयशुद्धिः निर्युक्तिः
| १४२-१४३
दशावयवे
पञ्चमषष्ठीविपक्षविपक्षप्रतिषेधा
वयवी ।
।। १२४ ।।