________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि०
वृत्तियुतम्
।। १०६ ।।
www.kobatirth.org
तस्येत्थम्भूतस्याभिसन्धेरभावादिति गाथाद्वयार्थः ॥ १०१-१०२ ।। किंच
नि०- किं च दुमा पुष्पंति भमराणं कारणा अहासमयं । मा भमरमहुयरिगणा किलामएज्जा अणाहारा ।। १०३ ।। किं च द्रुमाः पुष्प्यन्ति भ्रमराणां कारणात् कारणेन यथासमयं यथाकालं मा भ्रमरमधुकरीगणाः क्लामन् (क्लामिषुः ) ग्लानिं प्रतिपद्येरन्, अनाहारा अविद्यमानाहाराः सन्तः, काक्वा नैवैतदित्थमिति गाथार्थः ।। १०३ ।। साम्प्रतं पराभिप्रायमाह
नि०- कस्सइ बुद्धी एसा वित्ती उवकप्पिया पयावड़णा। सत्ताणं तेण दुमा पुष्पंति महुयरिगणट्ठा ।। १०४ ।।
अथ कस्यचिद्बुद्धिः कस्यचिदभिप्रायः स्याद्यदुत एषा वृत्तिरुपकल्पिता, केन? प्रजापतिना, केषां ? सत्त्वानां प्राणिनां तेन कारणेन द्रुमाः पुष्प्यन्ति मधुकरीगणार्थमेवेति गाथार्थ: ।। १०४ ।। अत्रोत्तरमाह
नि०- तं न भवइ जेण दुमा नामागोयस्स पुल्वविहियस्स। उदएणं पुप्फफलं निवत्तयंती इमं चऽन्नं ।। १०५ ।। यदुक्तं परेण तन्न भवति, कुत इत्याह- येन द्रुमा नामगोत्रस्य कर्मणः पूर्वविहितस्य जन्मान्तरोपात्तस्य उदयेन विपाकानुभवलक्षणेन पुष्पफलं निर्वर्त्तयन्ति कुर्वन्ति, अन्यथा सदैव तद्भावप्रसङ्ग इति भावनीयम् । इदं चान्यत्कारणम्, वक्ष्यमाणमिति गाथार्थः ।।
१०५ ।।
नि०- अत्थि बहू वणसंडा भमरा जत्थ न उवेंति न वसंति । तत्थऽवि पुप्फंति दुमा पगई एसा दुमगणाणं ।। १०६ ।। सन्ति बहूनि वनखण्डानि तेषु तेषु स्थानेषु, भ्रमरा यत्र नोपयान्ति अन्यतः, न वसन्ति तेष्वेव, तथापि पुष्प्यन्ति द्रुमाः, अतः प्रकृतिरेषा स्वभाव एष द्रुमगणानामिति गाथार्थः ।। १०६ ।। अत्राह
नि०- जड़ पगई कीस पुणो सवं कालं न देंति पुप्फफलं। जं काले पुप्फफलं दयंति गुरुराह अत एव ।। १०७ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं
द्रुमपुष्पिका,
सूत्रम् २
भ्रमरोदाहरणं । निर्युक्तिः १०३-१०७
दृष्टान्त
विशुद्धा| वाक्षेप
परिहारौ ।
।। १०६ ।।