________________
Shri Mahavir Jain Aradhana Kendra
श्रीदश
वैकालिकं श्रीहारि०
वृत्तियुतम्
।। १०२ ।।
www.kobatirth.org
नि०- जो तेसु धम्मसद्दो सो उवयारेण निच्छएण इहं। जह सीहसद्दु सीहे पाहण्णुवयार ओऽण्णत्थ ।। ९५ ।।
यः तेषु तन्त्रान्तरीयधर्मेषु धर्मशब्दः स उपचारेण अपरमार्थेन, निश्चयेन अत्र जिनशासने, कथं? - यथा सिंहशब्दः सिंहे व्यवस्थितः प्राधान्येन, उपचारत: उपचारेण अन्यत्र माणवकादौ, यथा सिंहो माणवकः, उपचारनिमित्तं च शौर्यक्रौर्यादयः धर्मे त्वहिंसाद्यभिधानादय इति गाथार्थः ।। ९५ ।।
भा०- एस पइन्नासुद्धी हेऊ अहिंसाइएस पंचसुवि। सब्भावेण जयंती हेउविसुद्धी इमा तत्थ ॥ १ ॥
एषा उक्तस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धिः, हेतुरहिंसादिषु पञ्चस्वपि सद्भावेन यतन्त इति, अयं च प्राग् व्याख्यात एव, शुद्धिमभिधातुकामेन च भाष्यकृता पुनरुपन्यस्त इति, अत एवाह हेतोर्विशुद्धिर्हेतुविशुद्धिः, विषयविभाषाव्यवस्थापनं विशुद्धिः, इमा इयं तत्र प्रयोग इति गाथार्थः ।।
भा०- जं भत्तपाणडवगरणवसहिसवणासणाइसु जयंति । फासूय अकय अकारियअणणुमयाणुद्दिट्टभोई य ।। २ ।।
यद् यस्मात् भक्तं च पानं चोपकरणं च वसतिश्च शयनासनादयश्चेति समासस्तेषु, किं ? - यतन्ते प्रयत्नं कुर्वन्ति, कथमेतदेवमित्यत्राह- यस्मात् प्रासुकं चाकृतं चाकारितं चाननुमतं चानुद्दिष्टं च तद्भोक्तुं शीलं येषां ते तथाविधाः, तत्रासवः प्राणाः प्रगता असवः- प्राणा यस्मादिति प्रासुकं- निर्जीवम्, तच्च स्वकृतमपि भवत्यत आह- अकृतम्, तदपि कारितमपि भवत्यत आह- अकारितम्, तदप्यनुमतमपि भवत्यत आह- अननुमतम्, तदप्युद्दिष्टमपि भवति यावदर्शिकादि न च तदिष्यत इत्यत आह- अनुद्दिष्टमिति । एतत्परिज्ञानोपायश्चोपन्यस्तसकलप्रदानादिलक्षणसूत्रादवगन्तव्य इति गाथार्थ : ।। तदन्ये पुनः किमित्यत
आह
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रथममध्ययनं
द्रुमपुष्पिका,
सूत्रम् १ निर्युक्तिः ९५
भाष्यम् १२
हेतोर्विशुद्धिः ।
।। १०२ ।।