________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsun Gyarmandir
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १०१॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् १ नियुक्तिः ९३-९४ दशावयवे
प्रतिज्ञाशुद्धिः ।
द्वितीया पञ्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया, प्रतिज्ञा पूर्ववत्, द्वितीया चासौ प्रतिज्ञा च द्वितीयप्रतिज्ञा, सा चेयं- जिनशासने जिनप्रवचने, किं?- साधयन्ति निष्पादयन्ति साधवः प्रव्रजिताः धर्म प्राग्निरूपितशब्दार्थम् । इह च साधव इति धर्म्मिनिर्देशः, शेषस्तु साध्यधर्म इति, अयं प्रतिज्ञानिर्देशः। हेतु-निर्देशमाह- हेतुर्यस्मात् साभाविकेषु पारमार्थिकेषु निरुपचरितेष्वर्थेष्वित्यर्थः अहिंसादिषु, आदिशब्दान्मृषावादादिविरतिपरिग्रहः, अन्ये तु व्याचक्षते-'सम्भाविएहिति सद्भावेन निरुपचरितसकलदुःखक्षयायैवेत्यर्थः यतन्ते प्रयत्नं कुर्वन्ति इति गाथार्थः ।। ९२ ॥ साम्प्रतं प्रतिज्ञाशुद्धिमभिधातुकाम आह
नि०-जह जिणसासणनिरया धम्मं पालेंति साहवो सुद्धं । न कुतित्थिएसु एवं दीसइ परिवालणोवाओ।। ९३॥ यथा येन प्रकारेण जिनशासननिरता- निश्चयेन रता धर्म प्राग्निरूपितशब्दार्थं पालयन्ति रक्षन्ति साधवः प्रव्रजिताः षड्जीवनिकायपरिज्ञानेन कृतकारितादिपरिवर्जनेन च शुद्ध अकलङ्कम्, नैवं तन्त्रान्तरीयाः, यस्मान्न कुतीर्थिकेषु, एवं यथा साधुषु
दृश्यते परिपालनोपायः, षड्जीवनिकायपरिज्ञानाद्यभावात् । उपायग्रहणं च साभिप्रायकम्, शास्त्रोक्तः खलूपायोऽत्र चिन्त्यते, ॐन पुरुषानुष्ठानम्, कापुरुषा हि वितथकारिणोऽपि भवन्त्येवेति गाथार्थः ।। ९३ ।। अत्राह
नि०- तेसुविय धम्मसद्दो धम्मं निययं च ते पसंसंति । नणु भणिओ सावज्जो कुतित्थिधम्मो जिणवरेहिं ।। ९४।। तेष्वपि च तन्त्रान्तरीयधर्मेषु, किं?- धर्मशब्दो लोके रूढः, तथा धर्मं निजं च आत्मीयमेव यथातथं ते प्रशंसन्ति स्तुवन्ति, ततश्च कथमेतदिति, अत्रोच्यते, नन्वि त्यक्षमायां भणित उक्तः पूर्वं सावद्यः सपापः कुतीर्थिकधर्म: चरकादिधर्मः । कैः?जिनवरैः तीर्थकरैःण जिणेहिं उपसत्थो इति वचनात्, षड्जीवनिकायपरिज्ञानाद्यभावादेवेति, अत्रापि बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ ९४ ।। तथा
॥१०१॥
For Private and Personal Use Only