________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 1८३॥
स च वक्तव्य:- भद्र! तव कुविज्ञानं जीवास्तित्वनिषेधकध्वनिनिमित्तत्वेन तनिषेधकं भवति परोक्षम, अन्यप्रमातृणामिति गम्यते, तस्माद् भवदुपन्यस्तयुक्त्या नास्तीति कृत्वा निषेधते को नु?, विवक्षाऽभावे विशिष्टशब्दानुत्पत्तेरिति गाथार्थः ।। उदाहरणदेशता चास्य पूर्ववदिति गतं पृच्छाद्वारम् ॥
नि०- अन्नावएसओ नाहियवाई जेसिँ नत्थि जीवो उ। दाणाइफलं तेसिं न विजाइ चउह तहोस ।। ८०॥ अन्यापदेशतः अन्यापदेशेन नास्तिकवादी लोकायतो वक्तव्य इति शेषः, अहो धिक्कष्टं येषां वादिनां नास्ति जीव एव न विद्यते आत्मैव दानादिफलं तेषां न विद्यते दानहोमयागतपःसमाध्यादिफलं-स्वर्गापवर्गादि तेषां -वादिनां न विद्यतेनास्तीत्यर्थः। कदाचित्त एवं श्रुत्वैवं ब्रूयुः- मा भवतु, का नो हानिः?, 'न हाभ्युपगमा एव बाधायै भवन्ती'ति, ततश्च सत्त्ववैचित्र्यान्यथानुपपत्तितस्ते सम्प्रतिपत्तिमानेतव्याः, इत्यलं विस्तरेण, गमनिकामात्रमेतद्, उदाहरणदेशता चरणकरणानुयोगानुसारेण भावनीयेति । गतं निश्राद्वारम्, तदन्वाख्यानाच्च तद्देशद्वारम्, अधुना तद्दोषद्वारावयवार्थप्रचिकटविषयोपन्यासार्थं गाथावयवमाह-'चउह तहोस चतुर्धा तद्दोष- इति उदाहरणदोषः, अनुस्वारस्त्वलाक्षणिकः, अथवोदाहरणेनैव सामानाधिकरण्यम्, ततश्च तद्दोषमिति तस्योदाहरणस्यैव दोषा यस्मिंस्तत्तद्दोषमिति गाथार्थः।। उपन्यस्तं चातुर्विध्यं प्रतिपादयन्नाह
नि०- पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासं । दुरुवणियं तु चउत्थं अहम्मजुत्तमि नलदामो ॥ ८१ ।। प्रथमं आद्यं अधर्मयुक्तं पापसम्बद्धमित्यर्थः, तथा प्रतिलोमं प्रतिकूलम्, आत्मन उपन्यास इति आत्मन एवोपन्यास:-तथानिवेदनं यस्मिन्निति, दुरुपनीतं चेति दुष्टमुपनीतं- निगमितमस्मिन्निति चतुर्थमिदं वर्त्तते, अमीषामेव यथोपन्यासमुदाहरणैO०णानुसारेण (प्र०)।
प्रथममध्ययन दुमपुष्पिका, सूत्रम् १ निर्मुक्तिः ८० पृच्छानिश्राद्वारम्। नियुक्तिः ८१ 'तहो'ति चतुष्प्रकारे ध्वधर्मयुक्तमिति प्रथमद्वारे नलदामकोदाहरणम्।
ER
॥
3
॥
For Private and Personal Use Only