________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
चौर्यादौ निश्चितेऽपि तत् कारणं यदि यथोक्रः प्राणात्यय'हेतुरवधार्यते तदा तस्य न दोषः, “आत्मानं गोपायौत" इति विधिदर्शनात् नित्यस्यास्य विधेरतिक्रमायोगात्।
एतद्दचनस्वरसादेव पापस्यानुत्पत्तेः। उत्पत्तौ वा प्रायश्चित्तेनापनोदसम्भवात्, अतो न तन्मूलको दण्डः । तत्र हि तदभाव एव धर्म इति स्मृतः, भृगुराहेति समुदायार्थः । यच्च चौर्याधिकारे ब्राह्मणमुपक्रम्य गौतमवचनमवृत्तौ प्रायश्चित्तौ स इति तदप्येतत्समानविषयम् ।
तथाहि तदयमर्थः—अन्येन प्रकारेण जौवनानुपपत्तौ ब्राह्मणो न दण्ड्यः किन्तु प्रायश्चित्तं कार्यमिति ।
एवञ्चाततायिबधेनैकमूलकमेवेदम् । एतन्मूलकमेव वचनं पारदारिकेऽधिकरणे वात्स्यायनीयाः पठन्ति ।
आयुर्यशोरिपुरधर्मसुहृत् स चायम् । कार्यों दशाविपरिणामवशान्न कामात् ॥ इति । पथिकानामल्यापहारे न दण्ड इत्याह, मनुः,
दिजोऽध्वगः क्षीणत्ति विक्ष द्वे च मूलके । . आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ अच प्राणवाणविधेः साधारण्येन न्यायसाम्यात् दिज इति क्षत्रियादेरप्युपलक्षणम् । मत्स्यपुराणे द्विजोऽध्वग इत्यादौ तु,त्रपुषोव्वारुके हे हे तावन्मा फलेषु च । शाकं स्तोकप्रमाणेन गृह्णानो नैव दृष्यति ॥ १ घ पुस्तके प्राणात्यये । २ घ पुस्तके प्रायश्चित्तं न ।
३ ग - धारुके।
For Private And Personal Use Only