________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जानतः साक्षिणः कौटिल्यादनिगदतो दण्डः ।
३४
दण्डस्तु कात्यायनेनोक्तः,साक्षौ साक्ष्यं न चेद्र्यात् समदण्डं वहेदृणम् ।
अतोऽन्येषु विवादेषु त्रिशतं दण्डमर्हति ॥ समदण्डमणमिति बालविषयेणैवैतावानेव दण्डः स्त्रीसंग्रहणादिविषये तु पणशतत्रयमित्यर्थः । यत्तु,पारयन्तोऽपि ये साक्ष्यं तुष्णीभूता उदासते।
ते कूटसाक्षिणां पापैस्तुल्या दण्डेन चैव हि ॥ इति विष्णुवचनं तत्र दण्डेन कूटसाक्षीत्युक्तेन लाभात् सहस्रमित्यादिना विवादपराजयदण्डदिगुणेन वा त्वभ्यासे त्वर्थदण्डविवासनाभ्यामिति मिताक्षराकारः । विष्णत-सर्वस्वापहरणेनेति रत्नाकरः।।
एवञ्चैतन्मते वचनमिदं वारंवारं कूटसाक्ष्यविषयम् । ग्रहेश्वरमते त्वल्यधनस्य यथोक्तसंख्यातासम्पत्तिविषयं पर्यवस्यति । एतच्चानन्तरप्रकरणे दर्शितम् । अथ लेख्यविषये व्यासः,स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः ।
स सम्यक्भावितः कार्यो जिह्वापाण्यविवर्जितः॥ सम्यग्भावितो लोके तथाविधदुराचारतया ख्यापितः। स्थावर इति विक्रयाधान इत्युभयोरप्युपलक्षणम् ।
तेन यादृशि विषये कूटलेख्यकरणं तदनुसारेण तत्कतर्जिह्वादिच्छेदः समुच्चयविकल्याभ्यां कर्त्तव्य इति तात्पर्यम् ।
For Private And Personal Use Only