________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
दण्डविवेकः ।
अदास्या दासाय दाने तदत्कर्षापकर्षतारतम्यादधोऽङ्गच्छेदो वेत्यर्थः । आस्कन्दविषयमिदं विवाहादावनुमतौ तु न दोषः। अथ राजानिष्टप्रकाशने याज्ञवल्क्यः,दिनेत्रभेदिनो राजद्दिष्टादेशकृतस्तथा । विप्रत्वेन शूद्रस्य जीवतोऽष्टशतो दमः ॥ राजद्दिष्टादेशकृतः-द्वितीय वर्षे राजा मरिष्यतीत्यादेशकारी। अत्र मिताक्षराकारः यो ज्योतिःशास्त्रविगु दिहिते (?) अव्यतिरिक्तो राज्ञो द्दिष्टमनिष्टं संवत्सरान्ते तु राज्यच्युतिर्भविष्यतीत्यादिरूपमादेशं करोति तस्याष्टशतो दण्डः । ब्राह्मणानुवृत्तौ यमः,
राजद्दिष्टानि यो भाषेद्दण्डो निर्विषयः स्मृतः। निर्विषयो देशान्निःसारणम् । अथ खिन्नदृषादिवाहने मनुः,गोकुमारौ-देवपशूनुक्षाणं वृषभन्तथा ।
वाहयन् साहसं पूर्व प्राप्नुयादष्टमं वधे ॥ गोकुमारी वृषेण संयुक्ता गौः। देवपशुर्देवतोदेशेनोत्सृष्टपशुः। उक्षा उक्ष सेचन इति धात्वर्थानुसारादौजमोक्ता वृषः। वृषभो जीर्णदृषः । दृषाधिकारे वृहस्पतिः, श्रान्तान् क्षुधार्तान् तृषितानकाले वाहयेत्तु यः। स गोनो निष्कृति कार्यो दाप्यो वाप्यथवा दमम् ॥
For Private And Personal Use Only