SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७६ Acharya Shri Kailassagarsuri Gyanmandir दण्ड़विवेकः । तरिकः नद्यादिसन्तारण शुल्कनियुक्तः, आददानश्चेति दाप्य इत्यनुषङ्गः । तच्च तरशुल्कं तेषां ब्रह्मचार्य्यादीनाम् । एतच्च वसिष्ठोक्तानामपि श्रोत्रियादौनां तुल्ययोगक्षेमत्वात् । तेनामौषां शुल्कं गृह्णन् तरिको दशपणान् दण्ड्यः । गृहौतञ्च तेभ्यो दाप्यः इत्यर्थः । स्थल शुक्लमिति पद्भ्यां सन्तौर्य्यमाणं जलं स्थलप्रायमेव तच नौकोत्तारणमूलकं शुल्कं स्थलशुल्कमेव पर्य्यवस्यति तेन पद्भ्यां सन्तरतस्तरशुल्कग्रहणे दशपणात्मको दण्ड इत्यर्थः । आह च हलायुधः, — नाविकः सन्तारणव्यतिरेकेणेत्यमेव तरशुल्कं गृह्णन् दशपणान् दाप्य इति । कल्पतरौ त स्थानिक इति पठित्वा स्थानिकः स्थानाधि कृत इति व्याख्यातम् । वस्तुतस्तु द्विविधं शुल्कं स्थानिक तारिकञ्च । तत्राद्यं यथा— विष्णुः, - स्वदेशपण्याच्छुल्कांशं दशममादद्यादित्यादि । द्वितीयं यथा, - ―― पणं यानेतरं दद्यात् पौरुषेऽईपणं तरम् । इत्यादि । तच पुरुषवाह्यद्रव्ये दशमांशं शुल्कं गृह्णतोऽयं दण्डः । भारानुसारेण शुल्कस्यान्नृणत्वात् मूल्यानुसारेण लाभापेक्षया वणिक्शुल्कस्य गुरुत्वात् एवमेव मिताक्षरास्वरसः । वसिष्ठः, — वाहुभ्यामुत्तरन् पणशतं दण्ड्यः । राजकर विलोपविषयमेतदिति प्रतिभाति ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy