________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहूनामेकं प्रहरतां दण्डमाह।
२४६
यत्र तु प्रहारयोः पूर्वापरभावपरिच्छेदो नास्ति यत्र वाऽपराधसाम्यं तत्र तु योरपि यथोक्तो दण्डः कात्यायनवचनस्वरसात्। आततायिवधे च दण्डाभाव एव वृहस्पतिवचनादिति। ___ इयच्च व्यवस्था वाक्पारष्येऽपि सञ्चारणीया न्यायसाम्यात्। वाग्दण्डपारुष्याधिकारे विधिः पञ्चविधस्वक्त एव-एतयोरुभयोरपौत्युपक्रम्य निरुक्तप्रकाराणां नारदेनोपन्यासात् वृहस्पतिवचनयोरुभयोर्विषयतायाः स्फुटत्वाच्च ।
अथ बहूनामेकं प्रहरतां दण्डमाह ।
याज्ञवल्क्यः,
एकं नतां बहूनाञ्च यथोक्ताद्दिगुणो दमः । द्विगुणः प्रत्येकमिति शेषः। एकं बहूनां निघ्नतां प्रत्येकस्योक्तदण्डाद् द्विगुणः ।
इति विष्णुसंवादात् । अथ यत्र होनः पारुष्यकारी तवोत्तमस्य ताडनादिना तं दण्डयतोऽपि न दण्ड इत्यादिका वाचनिको व्यवस्था च हौनपरिगणनञ्च इयमपि वाक्पारुष्यप्रकरणे दर्शितमतस्तचैवानुसन्धेयम् ।
इति विविक्ता दण्डपारुष्यदण्डमाका ।
For Private And Personal Use Only