________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
" YAL
२४७
दण्डविवेकः।
यस्तु सोढुमशक्लवन् समे न्यूने प्रहर्तरि प्रहारानुरूपमनुवन्धेन प्रहरति तस्य दण्डाभावो बृहस्पतिवचनात्।
गुणजात्यादिनाऽधिके तु प्रहर्तरि हौनस्य श्वपचादेः प्रहारानुरूपमपि सकृदपि प्रहरतो दण्ड एव क्षमायां प्राप्तायां प्रहारमावस्यैवानौचित्यात् ।
न हि कश्चिदनुन्मत्तोऽपराधं विनैव परं प्रहरति, अतो हौनस्य प्राक्तनो वाक्पारुष्यादिरपराधो वाच्यः। तत्र चाधिकस्यायथापराधमपि प्रत्यपराध्यतो न दोषः । वाक्पारुष्येत्यादि पूर्वप्रकरणोक्तहस्पतिवचनस्वरसात् । ___ एवं ब्राह्मणेऽप्रहर्तरि निर्गुणस्य शूद्रस्यापि दण्डो द्रष्टव्यः । यः पुनरपराधतारतम्यानुसरणोदासौनः प्रहरन्नपि प्रहारमननुवन्धेन प्रवर्त्तयति अनुवनन्नप्यधिकं वा प्रहरति तस्य यथोक्तादल्यो दण्डः पूर्वे तु विनयो गुरुरिति नारदवचनस्वरसात्।
यस्तु प्रहर्तारं प्रहृत्य' तस्मिन् तुष्णौं तिष्ठति अनुरूपं प्रतिकृत्य विवदते वा पुनः कलहमनुवर्त्तयति यो वा प्रतिग्रहर्ता प्रहर्तरि यथोक्तं प्रहारं प्राप्य विरते तथा करोति एतयोर्यथोक्तादधिको दण्डः । " पूर्बो वा यदि वोत्तरः”।
इत्यादि नारदवचनात् । एवं यो भस्मादिग्रहर्तरि खड्गादिना प्रहरति सोऽप्यधिकमेव दण्ड्यः कात्यायनवचनात्, अभिघाताभिद्रोहयोरुत्तरचापराधाधिक्याच्च ।
१ प्रहर्ता परं प्रकृत्य ।
For Private And Personal Use Only