________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपारुष्यदण्डः ।
२४१
अत्र व्यवस्थामाह कात्यायन इत्युपक्रम्य,
आततायिनि चोत्कृष्टे तपः-स्वाध्याय-जन्मतः । वधस्तव तु नैव स्यात् पापे होने वधो भृगुः ॥ इति वचनमित्थं व्याख्यातवान् जन्मपदेन जातिः कुलञ्चोच्यते तेनाधमवर्णनातताय्यप्युत्तमवर्णों न हन्तव्यः । समवर्णेनापि तपोविद्याकुलैरुत्कृष्टो' न वध्यः । अत एव भगवह्रौतायामुक्तम् ।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः। इति एतान् भौष्मादौनत्यन्तोत्कृष्टगुणानित्यर्थ इत्याह । हलायुधेनापि कात्यायनवचनानुसारेणैव व्यवस्थोक्ता।
अच प्रतिभाति,-आत्मगोपनश्रुतिमूलमाततायिवधाभ्यनुज्ञावचनं आत्मघातनिषेधस्मृत्या सममेकमूलकत्वे लाघवात् न चेह तहक्तुं युक्तं आत्मानं गोपायौत न पुनरमर्षादिकषायितोऽनशनादिना वा विषभक्षणादिना वा हन्यादिति तदर्थात्।
असूर्य्या नाम ते लोका अन्धेन तमसा वृताः। तांस्ते प्रत्यभिगच्छन्ति ये के चात्महनो जनाः ॥ इति श्रुत्या सममेकवाक्यत्वे लाघवात्। अन्यथा भोज्यान्तराभावे महामांसादिभक्षणेनाप्यात्मा रक्षणीयः स्यात् तदर्थं ब्राह्मणसुवर्णहरणमपि कर्त्तव्यं स्यात् ।
न चेदं युक्तमेकत्र विधावपरविध्यविरोधस्यानुरोध्यत्वात् विधिनिषेधयोवैधयोरेकतरेण स्पृष्टेऽन्यतरानवकाशत्।
१ घ व्यतिरिक्त-। २ घ वधत्वं ।
For Private And Personal Use Only