SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ दण्डविवेकः । त्यत्तिहारेति ऋतुरात्रिभ्यो बहिर्दोषो न स्यात् अथास्तु ऋतुरात्रिषु क्षत्रियविशोब्राह्यणीमभिगच्छतोर्वधः । वस्तुतस्तु, स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः । इति भगवद्गीतासूपनिषत्सु दर्शनाद् ब्राह्मणेनाब्राह्मणेन वा कामादकामाद्दा सङ्गतासु स्त्रीष्वविशेषादेव सङ्करदोष इत्युपेयम् । अत एव पातिव्रतऽस्वलनमेव तहेतुमाहतुः शङ्खलिखितौ " एकव्रतक्षयभावात् परोपहतत्वाच्च दृष्टाः स्त्रियः सङ्करकारिण्यो भवन्ति"। इति चेन्न प्रायश्चित्तादिनापि दोषापहारसम्मवे वधस्यानौचित्यात् । यत्तु केचिदूचुः,___परदारान् रमन्तस्तु देषात्तत्पतिभिर्हताः । इति ब्रह्मपुराणदर्शनात् ब्राह्मणादेः प्रवृत्तक्रियस्य वधो गभ्यत इति । तच्चिन्त्यं वचनस्यास्य पातित्यं विधातुं वधानुवादरूपत्वात् "पतितास्ते प्रकीर्तिताः" इत्युपसंहारदर्शनात् वधस्यानुवाद एव। सिद्धमाक्षिपतीति चेन्न आक्षिपतु नाम नत्वयं विधिपूर्वको हि नियमः प्रत्युत देषादितिवचनाद् वैरिवधकोटिः कटाक्ष्यत इति। अत्रोच्यते प्रियाधर्षिणो वचनादेवाततायित्वमाततायिवधे वचनादेव पापाभाव इति । एतच्च भवदेवमतमाश्रित्योक्तम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy