________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड्पारुष्यदण्डः।
२३७
स च शूद्रकृतगर्भे त्यागः। ब्राह्मणक्षत्रियविश भार्याः शूद्रेण सङ्गताः । अप्रजास्ता विशुद्ध्यन्ति प्रायश्चित्तेन नेतराः॥
इति स्मरणादिति । तदेवं व्यवस्थिते शास्त्रार्थे किं तत् प्रियाधर्षणं यत्र वर्णसङ्करभियाभिगन्तुर्ब्राह्मणस्यापि वधोऽनुज्ञायत इति ।
अस्तु बलात्कारविषयमेतत् अतिक्रमकारिवत् प्रियाधर्मांत्यत्रापि तस्य स्फुटत्वात् निषा प्रागल्भ्य इति धात्वर्थालोचनात् अपहारीत्यतिक्रामिणमित्यभिगामिनमित्यमौषामपि तत्परत्वात् पुरुषव्यापारप्राधान्यप्रतीतेः।
कृतां भावकारकवाचित्वेऽपि तद्विशेषस्य णिनेरुद्रिक्तक्रियांशत्वादिति चेन्न।
यद्यपि णिनावुद्रिक्तः क्रियांशः स्यात् तथापि बलात्कारे रजसा त्रिरात्रेण वा शुद्धयेदिति गत्यन्तरसम्भवेन वधस्यादृष्टार्थत्वापातात्, अत एव कामकृतविषयत्वमपास्तम् ।
तत्र चान्द्रायणादपि शुद्धिसम्भवात् गर्भोत्पत्त्यादौ तद्योगादेव न सङ्करसंज्ञेति' न तद्दिषयत्वम् ।।
किञ्च सर्वत्राव सङ्करो वान्तरेणापहाराद् भवति न ब्राह्मणेन अत एव “शस्त्रं द्विजातिभिर्ग्राह्यम्” इत्यादि मनुवाक्ये विजातीनां विप्लव उत्तमस्तियाऽधमेन योगादिति नारायणेन व्याख्यातमिति कुतस्तद्दधः ।
अपि चापहारो नह्यस्वरूपेण सङ्करहेतुरपि तु पुत्रो
१ क्वचित् शकेति ।
२ घ तदाधः।
For Private And Personal Use Only