________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
दण्डविवेकः ।
कामधेनौ तूभयत्र व्यङ्गति पठितं तत्र व्यङ्गत्वेन खजादयो विवक्षिताः। अश्लीलं निष्ठुरञ्च प्रपञ्चयति स एवन्यङ्गावपूरणं वचो क्रोधात्तु कुरुते यदा। वृत्तदेशकुलानाञ्च अश्लीला सा बुधैः स्मृता ॥ महापातकयोत्रौ च राजस्तेयकरौ च या।
जातिभ्रंशकरी या च तौबा सा प्रथिता तु वाक् ॥ न्यगावपूरणं निकृष्टाङ्गप्रकटीकरणेन तिरस्करणं कामधेनावङ्गति पठितम् । बृहस्पतिः,भगिनी-
मासम्बन्धमुपपातकशंसनम् । पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥ अभक्ष्यापेयकथनं महापातकदूषणम् । पारुष्यमुत्तमं प्रोक्तं तौवं ममाभिघट्टनम् ॥ भगिनी-मासम्बद्धमुपपातकशंसनमिति तव भगिनी तव माता मया ग्राह्येति कीर्तनमित्यर्थः । इति रत्नाकरः। एवमेव हलायुधः।
वस्तुतस्तु मापदं मातृसपत्नौपरं तेन भगिनौं मातृसपत्नौं वा गतौ यतामौति कौर्तनमित्यर्थः। यथाव्याख्यानात्तस्योपपातकत्वाभावात् ।
१ मूले वाचाक्रोशात्तु ।
२ क्वचित् यदौतिपाठः। ३ घ पुस्तके राजद्देष ।
For Private And Personal Use Only