________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वाक्पारुष्यदण्डः ।
व्याप्तेः ।
Acharya Shri Kailassagarsuri Gyanmandir
मुद्देगजनकं वाक्यं तदाक्पारुष्यमिति सामान्यलक्षणपरमिति मिताक्षराकृता व्याख्यातम् ।
तच्चिन्त्यम्, –
यत्रोच्चैरवद्यभाषणं नास्ति तत्र हङ्कारानुकारादाव
१८७
यदाह कात्यायनः, -
हङ्कारं कामनश्चैव लोके यच विगर्हितम् । अनुकुर्य्यादनुब्रूयाद्दाक्पारुष्यं तदुच्यते ॥
तच देशाक्षेपो यथा, -
गौडीयं प्रति कलहप्रिया गौडा इत्यादि । जात्याक्रोशो यथा ब्राह्मणं प्रति अत्यन्तलुब्धा ब्राह्मण इत्यादि ।
कुलाक्रोशो यथा क्रूरचरिता वैश्वानरा इत्यादि न्यङ्कसंज्ञितं निकृष्टाङ्गसंज्ञावत् । निकृष्टाङ्गप्रकाशनेन सत्येनासत्येन वाक्षेप इत्यर्थः ।
तथाहि कात्यायनः, -
यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् । अभूतैरथ भूतैर्वा निष्ठुरा वाक् स्मृता तु सा ॥ कल्पतरावपि न्यङ्गसंज्ञितमश्लीलमिति व्याख्यातम् ।
तथा निकृष्टाङ्गसङ्गवदिति रत्नाकरः । हस्ततर्ज्जनादिकमिति हलायुधः ।
स्मृतिसारकृता तु न्यङ्गसंज्ञितमिति पठित्वा न्यङ्गमश्चौलमिति व्याख्यातम् । मेहनाद्युल्लेखवदिति मिश्राः ।
For Private And Personal Use Only