________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथायोनिविषयाभिगमे दण्डः। तबायोनिपदं मानुषौयोनिव्यतिरेकपरं तस्य दौ भेदौ स्त्रीपुंसयोरवयवान्तरं गवादियोनिश्च । तयोरङ्गान्तराभिगमे दण्डमाह याज्ञवल्क्यः,
अयोनौ गच्छतो योषां पुरुषं वापि मेहतः ।
चत्वारिंशत्पणो दण्डस्तथा प्रव्रजितागमे ॥ मिताक्षरायां चतुर्विंशतिको दण्ड इति पठितम् ।
अयोनौ योषामिति-अयोनौ मुखे द्रविडोत्कलादौ दृष्टत्वात् कामागमेषु श्रुतत्वाच्च ।
तत्र हौदमौपविष्टकमित्याख्यायते जघन्यस्य कर्मणः उपविष्टात् ' प्रवर्त्यमानत्वात् । आह च वात्स्यायनः,
तस्या वदने यज्जघनकर्म तदोपविष्टकमिति । इह याः स्वोपविष्टकमिच्छन्ति न ताभिः सह युज्यन्ते इत्यादिवचनाद्देश्यादास्यादौ फलतो रक्षावगमात् ।
धर्मपत्न्यां सुव्रतायां मुख मैथुनकारिणः ।
पत्नौ विधातुर्भवति - - - - - - - - । इति कर्मविपाकसमुच्चयवचनसम्बादाच्च धर्मपत्नौमात्रे निषेधः पर्यवस्यति एवञ्च तत्रैवायं दण्डः ।
१ घ उपरियात् ।
२ ग घ पुस्तके पत्नीविभक्तिर्भवति ।
For Private And Personal Use Only