________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
दण्डविवेकः ।
तथा,वरो दोषं समासाद्य यः कन्यां संहरेदिह । दत्ताऽप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतदयम् ॥
अथ याज्ञवल्क्यः
दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् । कन्यां वाचा दत्त्वा वरायाप्रयच्छन् द्रव्याद्यनुबन्धाद्यनुसारेण व्ययं दाप्यः। एतच्च कारणाभावे
दत्तामपि हरेत् कन्यां श्रेयांश्चेदर आव्रजेत् । इत्यत्रापहाराद्यनुज्ञानात्। व्ययमिति वा दाननिमित्तं स्वसम्बन्धिनां कन्यासम्बन्धिनां चोपचारार्थं वरेण यद्धनं व्ययितं तत् सद्धिकं कन्यापिता वराय दद्यादित्यर्थः ।
अथ स्त्रियाः कन्यादूषणमाह । मनुः,कन्यैव कन्यां या कुर्यात्तस्याः स्याविशतो दमः । शुल्कञ्च त्रिगुणं दद्याच्छिफाश्च प्राप्नुयाद्दश ॥ या तु कन्यां प्रकुर्यात् स्त्री सद्योऽसौ मौण्ड्यमर्हति।
अङ्गुल्योरेव च छेदं खरेणोद्धरणं तथा ॥ कुर्यात् प्रकुर्यादिति अङ्गलिप्रक्षेपेण नाशयेदित्यर्थः । इति मनुटौका। योनि क्षतवतों कुर्यादित्यर्थ इति मिताक्षराकारः। त्रिगुणं दिशतापेक्षया शुल्कदानञ्च
१ क पुस्तके सा सद्यो मौण्डामहति ।
For Private And Personal Use Only