________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कन्याटूषणदण्डः।
१८५ सेवमानां मैथने नानुकूलयन्तौं संयतां निबद्धां वासयेत् यावन्नित्ताभिलाषा स्यादिति मनुटोकायाम् ।
अथ प्रसङ्गात् कन्याहरणदण्डमाह। याज्ञवल्क्यः,अलङ्कृतां हरन् कन्यामुत्तमं ह्यन्यथाऽधमम् । दण्डं दद्यात् सवर्णासुर प्रातिलाम्ये वधस्तथा ॥ सकामास्वनुलामासु न दोषो ह्यन्यथाऽधमः । दूषणे तु करछेदस्तूत्तमायां वधस्तथा ॥ अलङ्कृतामन्यस्मै दातुं प्रसाधितां विवाहाभिमुखौभूतामिति यावत् । उत्तममुत्तमसाहसम्। अन्यथाऽनलकृतकन्याहरणेऽधमं प्रथमसाहसं सकामामिति न दोषो हर्तुरिति शेषः। अन्यथा तासामकामत्वेऽधमः प्रथमसाहसः। दूषणेऽङ्गुलिप्रक्षेपादिनेति हलायुधः। शेषं पूर्ववत् । __ अत्र दण्डविधानादपहर्तृसकाशादाछिद्यान्यस्मिन् देयेति गम्यते इति मिताक्षराकारः।
अथ प्रसङ्गादेव विवाहयितुर्विवोढुश्च कूटकारिणो दण्डः । तत्र मत्स्यपुराणे,
यस्तु दोषवतौं कन्यामनाख्याय प्रयच्छति । तस्य कुर्य्यान्नृपो दण्डं स्वयं षणवतिं पणान् ॥ यः कन्यां दर्शयित्वाऽन्यां वोढरन्यां प्रयच्छति । उत्तमं तस्य कुव्वौत राजा दण्डन्तु साहसम् ॥ १ ख मैथुनार्थम् ।
२ घ सवर्णन्तु ।
For Private And Personal Use Only